________________
४५१
अष्टादशः सर्गः तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठम् ।
सालक्तको भूपतयः प्रसिद्धर्ववन्दिरे मौलिभिरस्य पादौ ॥ ४१ ॥ तस्मात्सिंहासनादपादानादधोऽधोदेशं प्रति किंचिदिवावतीर्णावीषल्लम्बौ तपनीयपीठं काञ्चनपीठमसंस्पृशन्तावल्पकत्वादव्याप्तौ सालक्तको लाक्षारसावसिक्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धरुन्नतैौलिभिर्मुकुटैर्ववन्दिरे प्रणेमुः ॥
अन्वयः-तस्मात् अधः किंचिदिव अवतीणौँ तपनीयपीठम् असंपृशन्तौ, सालक्तको अस्य पादौ भूपतयः प्रसिद्धः मौलिभिः ववन्दिरे । ___ व्याख्या-तस्मात् =सिंहासनात् अपादानात् , अधः= निम्नदेशं प्रति किंच चित् च अनयोः समाहारः किंचित् = अल्पम् इव यथा अवतीर्णी = लम्बमानौ तप्यतेऽनेन इति तपनीयं, तपनीयस्य = सुवर्णस्य पीठम् = आसनं पादपीठमित्यर्थः । तपनीयपीठम् असंस्पृशन्तौ= अश्लिष्यन्तौ स्पर्शमकुर्वन्तावित्यर्थः । अल्पकत्वात् । अलक्तकेन = लाक्षारागेण सहितौ = लिप्तौ, इति सालक्तको, अस्य = सुदर्शनस्य पादौ = चरणौ भुवः पतयः भूपतयः = राजानः प्रसिद्धैः = भूषितैः “प्रसिद्धौ ख्यातभूषितौ” इत्यमरः । मौलिभिः = किरीटैः ववन्दिरे = प्रणेमुः प्रणामं कृतवन्तः इत्यर्थः।
समासः-न संस्पृशन्तौ, इति असंस्पृशन्तौ, तौ । तपनीयस्य पीठमिति तपनीयपीठम् तत् । अलक्तकेन, सहितौ सालक्तको।
हिन्दी-उस सिंहासन से नीचे की ओर जरा से लटकते हुए तथा सोने के बने पाँवदान तक न पहुंचने वाले ( पाँवदान को न छू रहे ) महाबर से रंगे हुए, राजा बालक सुदर्शन के चरणों की वन्दना ( प्रणाम ) भूपालों ने अपने प्रसिद्ध सजे सजाये मुकुटों से की। अर्थात् पैरों पर शिर रख कर प्रणाम किया ॥ ४१ ॥
मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेमकेऽपि ॥ ४२ ॥ अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न तथैवार्भके शिशावपि तस्मिन्सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे॥
अन्वयः-अल्पप्रमाणे अपि मणौ प्रभावात् महानीलः इति शब्दः यथा मिथ्या न, तथा एव अर्भके अपि तस्मिन् प्रतीतः महाराजः इति शब्दः न मिथ्या युयुजे।
व्याख्या-अल्पं - स्वल्पम् = ईषत् प्रमाणम् = इयत्ता यस्य स तस्मिन् अल्पप्रमाणे अपि मणौ = इन्द्रनीले प्रकृष्टो भावः= कान्तिः इति प्रभावस्तस्मात् प्रभावात् = तेजोविशेषात् कान्तिमत्त्वादित्यर्थः महांश्चासौ नील: महानीलः = सिंहलद्वीपसंभवेन्द्रनीलोपल: इति महानीलः इति शब्दः यथा मिथ्या = असत्यः, निरर्थकः न भवतीति शेषः । तथैव = तेनैव प्रकारेण अर्भते = वृद्धिं प्राप्नुते इति अर्भकः तस्मिन् अर्भके = शिशौ अपि तस्मिन् = सुदर्शने प्रतीतः = प्रसिद्धः