________________
४४३
अष्टादशः सर्गः पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्त्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३० ॥ गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा । 'योग्यभाजनयोः पात्रम्' इत्यमरः। पत्त्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः। तत्समरूप इत्यर्थः । 'आकृतिः कथिता रूपे सामान्यवपुषोर पि' इति विश्वः । पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्रः पुत्राख्यो राजा । यद्वा पुत्रशब्द आवर्तनीयः। पुत्रः पुत्राख्यः पुत्रः सुतः। तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् अग्रगण्यं चकारेत्यर्थः ।।
अन्वयः--गुरुसेवनेन पात्रीकृतात्मा पत्ररथेन्द्रकेतोः स्पष्टाकृतिः पुष्करपत्रनेत्रः पुत्रः 'पुत्रः' तं पुत्रिणाम् अग्रसंख्यां समारोपयत् ।
व्याख्या-गुरोः = पितुः सेवनं = शुश्रूषा तेन गुरुसेवनेन न पात्रमिति अपात्रम् अपात्रं पात्रं संपद्यमानः कृतः इति पात्रीकृतः सुयोग्यीकृतः आत्मा येन स पात्रीकृतात्मा 'योग्यभाजनयोः पात्रमि'त्यमरः। पत्रं = पतत्रं रथ इव येषां ते पत्ररथाः। पत्ररथानां पक्षिणाम् इन्द्रः = राजा इति पत्ररथेन्द्रः = गरुडः केतौ = ध्वजायां यस्य स तस्य पत्ररथेन्द्रकेतोः = गरुडध्वजस्य विष्णोः स्पष्टा = स्फुटा आकृतिः = स्वरूपं यस्य स स्पष्टाकृतिः विष्णुस्वरूपः इत्यर्थः । पुष्कं = वारि रातोति, पुष्णातीति वा पुष्करं = पद्मं पत्रं = दलं तद्वत् नेत्रे = लोचने यस्य स पुष्करपत्रनेत्रः पुत्रः= पुत्रनामा पुन्नामनरकात् त्रायते इति पुत्रः = सुतः तं = ब्रह्मिष्ठं पुत्राः सन्ति येषां ते पुत्रिणः तेषां पुत्रिणा = पुत्रवतां मध्ये अग्रे= प्रथमे भवा संख्या अग्रसंख्या ताम् अग्रसंख्यां समा. रोपयत् आरोपितवान् सर्वेषु पुत्रवत्सु अग्रगण्यं कृतवानित्यर्थः ।
समासः-गुरूणां सेवनं तेन गुरुसेवनेन । पत्रं रथः इव येषां ते पत्ररथास्तेषाम् इन्द्रः, पत्ररथेन्द्रः, स केतौ यस्य स तस्य पत्ररथेन्द्रकेतोः। स्पष्टा आकृतिः यस्य स स्पष्टाकृतिः । पुष्करस्य पत्रं पुष्करपत्रं तद्वत् नेत्रे यस्य स पुष्करपत्रनेत्रः । पात्रीकृतः आत्मा येन स पात्रीकृतात्मा।
हिन्दी-पिता आदि गुरुजनों की सेवा करके अपने को सुपात्र योग्य बनाने वाला, और गरुडांकित पताका वाले विष्णु के समान सुन्दर तथा पद्मदल के समान नेत्र वाले ( कमललोचन उस पुत्रनामक, पुत्र ने अपने पिता ब्रह्मिष्ठ को सारे पुत्रवानों में अग्रगण्य बना दिया ॥३०॥
वंशस्थिति वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१ ॥ स्पृश्यन्त इति स्पर्शा विषयाः। तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः । अत एव मघोन इन्द्रस्य सखा मित्त्रं भावी भविष्यन् । स्वर्ग जिगमिषुरित्यर्थः । स ब्रह्मिष्ठो वंशकरेण वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठा संभाव्य संपाद्य त्रिषु पुष्करेषु तीर्थविशेषेषु । 'दिक्संख्ये संशायाम्' इति समासः । उपस्पृशन्स्नानं कुर्वत्रिदशत्वं देवभूयमाप ॥