________________
रघुवंशे
अन्वयः - मित्राणि हीनानि अनुपकर्तणि, प्रवृद्धानि विकुर्वते, अतः तेन मध्यमशक्तीनि मित्राणि स्थापितानि ।
४०८
व्याख्या — मेद्यन्तीति = स्निह्यन्तीति मित्राणि = सखायः हीनानि = क्षीणान्ति अतिदुर्बलानीत्यर्थः उपकुर्वन्तीति उपकर्तृणि, न उपकर्तृणि यानि तानि अनुपकर्तृणि= अनुपकारीणि जायन्ते इत्यर्थः। प्रवृद्धानि = समृद्धानि = सर्वथा समृद्धिमन्ति चेद् विकुर्वते = विरुद्धं कुर्वन्ति, अपकारं कुर्वन्तीत्यर्थः । अतः = अस्माद्धेतोः तेन राज्ञा अतिथिना मित्राणि = सुहृदः मध्यमा = नतिक्षीणा नाप्याधिका शक्तिः = सामर्थ्यं येषां तानि मध्यमशक्तीनि स्थापितानि = कृतानीत्यर्थः ।
=
समासः–मध्यमा शक्तिः येषां तानि मध्यमशक्तीनि । न उपकर्तृणि, इति अनुपकर्तॄणि ।
हिन्दी - यदि निकृष्ट अपने से छोटे नीच मित्र होते हैं तो कुछ न कुछ अपकार कर देंगे । और यदि अपने से बड़े धनी मित्र होंगे तो कुछ बाधा खड़ी करेंगे । इसलिये राजा अतिथि ने मध्यम शक्ति वाले ही मित्र बनाए थे । अर्थात् न तो अति धनी और न नीच थे, ऐसे ही उनके मित्र थे ॥ ५८ ॥
'शक्येष्वेवाभवद्यात्रा' ( १७५६ ) इत्यादिनोक्तमर्थं सोपस्कारमाह
परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलम् । ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽयथा ॥ ५९ ॥
सोऽतिथिः परात्मनोः शत्रोरात्मनश्च शक्त्यादीनां शक्तिदेशकालादीनां बलाबलं न्यूनाधिकभावं परिच्छिद्य निश्चित्य । एभिः शक्त्यादिभिः परस्माच्छत्रोर्बलिष्ठः स्वयमतिशयेन बलवांश्चेत् । बलशब्दान्मतुबन्तादिष्ठन्प्रत्ययः । ' विन्मतोर्लुक्' इति मतुपो लुक् । ययौ यात्रां चक्रे । अन्यथा बलिष्ठरचेदास्तातिष्ठत् । न ययावित्यर्थः । अत्र मनुः -- ' यदा मन्येत भावेन हृष्ट पुष्टं बलं स्वकम् । परस्य विपरीतं चेत्तदा यायादरीन्प्रति ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥' इति ॥
अन्वयः–सः परात्मनोः शक्त्यादीनां बलाबलं परिच्छिद्य, एभिः परस्मात् बलिष्ठः चेत् ययौ, अन्यथा चेत् आस्त ।
व्याख्या – सः = राजा परः = शत्रुश्च आत्मा = स्वं चेति परात्मानौ तयोः परात्मनोः शक्तिः आदिर्येषां ते शक्तयादयः तेषां शक्तयादीनाम् = शक्तिदेशकालादीनां बलं = सामर्थ्यम् अबलं = सामर्थ्याभावश्चेति बलाबलं न्यूनाधिकभावं, स्वस्याधिकबलत्वं परस्य हीनबलत्वं चेत्यर्थः । परिच्छिद्य = विनिश्चित्य, एभिः = शक्त्यादिभिः परस्मात् = शत्रोः सकाशात् अतिशयेन बलवान् इति बलिष्ठः = अतिबलशाली चेत् = यदि ययौ = यात्रां कृतवान् । अन्यथा = विपरीतः अबलिष्ठः, तदा आस्त = अतिष्ठत्, दण्डयात्रां न कृतवानित्यर्थः ।
समासः - परश्च आत्मा च परात्मानौ तयोः परात्मनोः । बलञ्च अबलचेति बलाबलम् । शक्तिः आदि येषां ते शक्त्यादयः, तेषां शक्त्यादीनाम् ।