________________
सप्तदशः सर्गः
इत्थ जनितासु प्रकृतिष्वनुवासरम् ।
अक्षोभ्य. स नवोऽप्यासीदृढमूल इव द्रुमः ॥ ४४ ॥
इत्थमनुवासरमन्वहं प्रकृतिषु प्रजासु जनितरागासु सतीषु स राजा नवोऽपि । दृढमूलो द्रुम sa | अक्षोभ्योऽप्रधृष्य आसीत् ॥
३९९
अन्वयः -- इत्थम् अनुवासरं प्रकृतिषु जनितानुरागासु “ सतीषु" सः नत्रः अपि दृढमूलः द्रुमः इव अक्षोभ्यः आसीत् ।
व्याख्या -- इत्थम् = अनेन प्रकारेण वासरे वासरे, इति अनुवासरम् = प्रतिदिनम् प्रकृष्टं कुर्वन्ति राज्यं ताः प्रकृतयस्तासु प्रकृतिषु = प्रजासु जनितः = उत्पन्न: अनुरागः = प्रीतिः यासु ताः, तासु जनितानुरागासु सतीपु सः = राजा अतिथिः नवः = नूतनः अपि दृढं = प्रगाढं मूलं = -बुध्नः यस्य स दृढभूलः द्रुमः = वृक्ष इव = यथा " दृढं स्थूले नितान्ते च प्रगाढे बलवत्यपि" इति मेदिनी । न क्षोभ्यः अक्षोभ्यः = अचलः = स्थिरः, अधृष्य इत्यर्थः । आसीत् = अभूत् ।
समासः--जनितः अनुरागः यामु ताः तासु जनितानुरागासु । वासरे वासरे अनु, इति अनुवासरम् । दृढं मूलं यस्य स दृढमूलः । न क्षोभ्यः अक्षोभ्यः ।
हिन्दी - इस प्रकार प्रतिदिन ( रोज-रोज ) राजा के प्रति प्रजा का प्रेम उत्पन्न होने से नया राजा भी मजबूत जड़ वाले वृक्ष की तरह स्थिर हो गया । प्रजा की भक्ति एवं अनुराग ही राजा की स्थिरता योग्यता का कारण है । यह अभिप्राय कवि का है ॥ ४४ ॥
अनित्याः शत्रवो बाह्या विप्रकृष्टाश्चते यतः । अतः सोऽभ्यन्तरान्नित्यान्षट् पूर्वमजयद्विपून् ॥
४५ ॥
यतो बाह्याः शत्रवः प्रतिनृपा अनित्याः । द्विषन्ति स्निह्यन्ति चेत्यर्थः । किंच ते बाह्या विप्रकृष्टा दूरस्थाश्च। अतः सोऽभ्यन्तरानन्तर्वर्तिनो नित्यान्षड्रिपून्कामक्रोधादीन्पूर्वमजयत् । अन्तःशत्रुज बाह्या अपि न दुर्जया इति भावः ।।
अन्वयः—यतः बाह्याः शत्रवः अनित्याः विप्रकृष्टाः च, अतः सः अभ्यन्तरान् नित्यान् षट् रिपून् पूर्वम् अजयत् ।
व्याख्या—यतः = यस्मात्कारणात् बहिर्भवाः बाह्याः = अशरीरस्थाः, असहजा इत्यर्थः । शत्रवः = रिपवः न नित्याः अनित्याः = अशाश्वताः कदाचित् कार्यवशात् द्विषन्ति, स्निह्यन्ति चेत्यर्थः । ' शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः । इत्यमरः । किंच ते = बाह्याः शत्रवः विप्रकृष्यंतेस्म इति विप्रकृष्टाः = दूरस्थाः । अतः = अस्मात्कारणात् सः = राजा अतिथिः, अभिगतम् अन्तरं येषां ते अभ्यन्तरास्तान् अभ्यन्तरान् = शरीरस्थाम् नित्यान् = शाश्वतान् मोक्षपर्यन्तस्थायिन इत्यर्थः, षड् षट्संख्यकान् कामक्रोधमोहादीन् रिपून् पूर्व = प्रथमम् अजयत् = जितवान् । अन्तःशत्रुषु निर्जितेषु बाह्याः शत्रवः अकिंचित्करा इत्यर्थः ।