________________
रघुवंशे
कुमुदः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्णादित्वात्स्वाथें ष्यन्प्रत्ययः । त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अत एव प्रभावाद् द्विषामङ्कुशं निवारकं मूर्धाभिषिक्तं राजानं कुशं मानोन्नतेनापि मू भिवन्ध प्रणम्य बभाषे ॥
अन्वयः-अस्त्रविद्वान् कुमुदः त्रैलोक्यनाथप्रभवम् 'अतएव' प्रभावात् द्विषाम् अंकुशं मूर्धाभिषिक्तं कुशं मानोन्नतेन अपि भूधर्ना अभिवन्ध बभाषे ।
व्याख्या-वेत्ति= जानातीति विद्वान् , अस्त्रं = गारुडास्त्रं विद्वानिति अस्त्रविद्वान् गारुडास्त्रप्रभावश इत्यर्थः । कुमुदः=नागः, त्रयो लोकास्त्रैलोक्यं, त्रैलोक्यस्य = भुवनत्रयस्य नाथः= स्वामी इति त्रैलोक्यनाथः रामः प्रभवः=जनकः पिता यस्य स तं त्रैलोक्यनाथप्रभवम् अतः एव प्रभावात् = प्रतापात् द्विषन्तीति द्विषस्तेषां द्विषां = शत्रूणाम् अंकुशं = निवारकं मूर्ध्नि = मस्तके अभिषिच्यते, राज्यतिलकसमये यः स मूर्धाभिषिक्तस्तं मूर्धामिषिक्तं =राजानं कुशं=रामपुत्रम् मानेन = गर्वेण उन्नतः इति मानोन्नतस्तेन मानोन्नतेन अपि मुह्यति यस्मिन्नाहते सति स मूर्धा तेन मूर्धा = मस्तकेन अभिवन्द्य = प्रणम्य अभिवन्दनं कृत्वा इत्यर्थः । बभाषे = उक्तवान्।
समासः- त्रैलोक्यस्य नाथस्त्रैलोक्यनाथः, त्रैलोक्यनाथः प्रभवः यस्य स तं त्रैलोक्यनाथप्रभवम् । अस्त्रं विद्वानिति अस्त्रविद्वान् । (अत्र न लोकेति षष्ठीसमासस्य निषेधेन गम्यादीना. मुपसंख्यानमिति समासः ।) मानेन उन्नतस्तेन मानोन्नतेन ।
हिन्दी-त्रिलोकी के नाथ राम के पुत्र, एवं प्रभाव से शत्रुओं के अंकुश ( अर्थात् अंकुश के समान पीड़ा देनेवाले) महाराज कुश को, घमण्ड से ऊँचे भी अपने मस्तक से प्रणाम करके गारुड अस्त्र के प्रभाव को जानने वाला कुमुद नाग बोला ॥ ८१ ॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य तेर्विघातम् ॥ ८२ ॥ ___ त्वाम् । ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः। 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्तर्येषु चान्तरम्' इति शाश्वतः। स चासौ मानुषश्चेति तस्य विष्णो रामस्य सुताख्यां पुत्रसंशामपरां तनुं मूर्तिमवैमि । 'आत्मा वै पुत्रनामासि' इति श्रुतिरित्यर्थः । स जाननहमाराधनीयस्योपास्यस्य तव धृतेः प्रीतेः। 'धृ प्रीतौ' इति धातोः स्त्रियां तिन् । विघातं कथं नामाचरेयम् । असंभावितमित्यर्थः ॥
अन्वयः त्वां कार्यान्तरमानुषस्य विष्णोः सुताख्याम् अपरां तनुम् अवैमि। सः अहं आराधनीयस्य तव धृतेः विघातं कथं नाम आचरेयम् ।
व्याख्या-त्वां =भवन्तम् अन्यत् कार्य यस्य कार्यान्तरः = प्रयोजनार्थश्चासौ मानुषःनरश्चेति कार्यान्तरमानुषस्तस्य कार्यान्तरमानुषस्य, भूभारहरणरूपप्रयोजनार्थधृतमनुजावतारस्येत्यर्थः । विष्णोः =रामस्य सुतः पुत्रः इति आख्या=संज्ञा यस्याः सा तां सुताख्याम् अपराम् = अन्यां तनुं = मूर्तिम् अवैमि = जानामि । “आत्मा वै पुत्रनामासि" इति श्रुतिवचनात् ।