________________
३६०
रघुवंशे
आकाशे आकाशस्य वा गंगा आकाशगंगा, तस्यां रतिर्यस्य सः आकाशगंगारतिः । अनुयाता लीला येन सोऽनुयातलीलः ।
हिन्दी -उन अन्तःपुर की स्त्रियों के साथ नदियों में श्रेष्ठ सरयू में जल विहार करते हुए राजा कुशने, अप्सराओं के साथ आकाशगंगा में जलक्रीड़ा करने वाले इन्द्र की लीला का अनुकरण किया । अर्थात् रानियों से घिरे कुश अप्सराओं से घिरे इन्द्र के समान दीख रहे थे ॥ ७१ ॥
यत्कुम्भयोनेरधिगम्य रामः कुशाय राज्येन समं दिदेश । तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥ ७२ ॥
यदाभरणं रामः कुम्भयोनेर गस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ । राज्यसममूल्यमित्यर्थः । सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सन्ममज्ज बुब्रोड |
अन्वयः— यत् रामः कुम्भयोनेः अधिगम्य कुशाय राज्येन समं दिदेश, सलिले विहर्तुः अस्य तत् जैत्राभरणम् अज्ञातपातं सत् ममज्ज ।
व्याख्या—यत् = आभरणं रामः = दाशरथिः कुम्भः = कलशः योनिः = उत्पत्तिस्थानम् अस्य स तस्मात् कुम्भयोनेः = अगस्त्यात् अधिगम्य = प्राप्य कुशाय = कुशनाम्ने स्वपुत्राय राज्ञो भावः कर्म व राज्यम् = तेन राज्येन = राष्ट्रेण, प्रभुसत्तया समं = साकं दिदेश = दत्तवान् । सलिले = जले सरयूनद्यामित्यर्थः । विहर्तुः = विहारं कर्तुः अस्य = कुशस्य तत् = पित्रा दत्तं जयति तच्छीलं जैत्रं = विजयशीलच तदाभरणमिति जैत्राभरणं = विजयशीलं भूषणम् अज्ञातः = न लक्षितः पातः = पतनं यस्य तत् अज्ञातपातं सत् ममज्ज = बुब्रोड, सलिले न्यमज्जदित्यर्थः ।
समासः - कुम्भः योनिरस्येति स कुम्भयोनिः तस्मात् कुम्भयोनेः । जैत्रञ्च तदाभरणमिति जैत्राभरणम् । अज्ञातः पातो यस्य तत् अज्ञातपातम् ।
हिन्दी - जो सदा जितानेवाला आभूषण रामने अगस्त्यमुनि से प्राप्त किया था, वह आभूषण रामने राज्य के साथ ही कुश को दे दिया था । जल बिहार करते समय वह जयशील आभरण जल में गिर पड़ा, जिसका गिरना ज्ञात न हुआ ॥ ७२ ॥
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव । दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥ ७३ ॥
असौ कुशः सदारः सन्यथाकामं यथेच्छं स्नात्वा विगाह्य । तीरे योपकार्या पूर्वोक्ता तां गतमात्र गत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ॥
श्रन्वयः - असौ सदारः यथाकामं स्नात्वा तीरोपकार्यां गतमात्र एव अपोढनेपथ्यविधिः (.: दिव्येन वलयेन शून्यं बाहुं ददर्श ।