________________
२३ षोडशः सर्गः
३५३ स्वयं छिन्नोऽपि न संलक्ष्यते। 'विदिभिदिच्छिदेः कुरच्' इति कुरच्प्रत्ययः। शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ॥
अन्वयः-जलास्फालनतत्पराणाम् आसाम् मुक्ताफलस्पर्धिषु पयोधरोत्सर्पिषु शीकरेषु "मध्ये" शीर्यमाणः छिदुरः अपि हारः न संल्लक्ष्यते ।
व्याख्या-जलस्य आस्फालनं = ताडनं तत्र तत्पराः =आसक्तास्तासां जलास्फालनतत्पराणाम् आसाम् = अन्तःपुरसुन्दरीणाम् मुक्तानां = मुक्तालतानां फलानि = मौक्तिकानि, इति मुक्ताफलानि तेषां स्पर्धिनः = अनुकारिणस्तेषु मुक्ताफलस्पर्धिषु तदनुकारिष्वित्यर्थः । पयोधरेषु = कुचेषु उत्सर्पन्ति = उत्पतन्ति ये ते पयोधरोत्सर्पिणः, तेषु पयोधरोत्सर्पिषु । शीकरेषु = अम्बुकणेषु “शीकरोऽम्बुकणः” इत्यमरः । अम्बुकणानां मध्ये इत्यर्थः । शीर्यतेऽसौ शीर्यमाणः = त्रुट्यमानः अतः एव छिदुरः = स्वतः छिन्नः अपि न संलक्ष्यते =न ज्ञायते, जलबिन्दुसंसर्गात् त्रुटितोऽपि न ज्ञायते इत्यर्थः।
समासः-जलस्य आस्फालनं तस्मिन् तत्परास्तासाम् जलास्फालनतत्पराणाम् , मुक्तानां फलानि मुक्ताफलानि तेषां स्पधिनस्तेषु मुक्ताफलस्पर्धिषु । पयसां धराः पयोधराः, पयोधरेषु उत्सर्पिणस्तेषु पयोधरोत्सर्पिषु ।
हिन्दी-और हे किराती देखो-जल को उछालने ( जलक्रीड़ा ) में मन इन रानियों को यह भी शान नहीं है कि मोतियों के समान और इनके स्तनों पर फैले हुए जल बिन्दुओं के बीच में गिरता हुआ हमारा हार स्वयं टूट गया है। अर्थात् स्तनों पर फैली जलबून्दों को मोती समझ कर टूटे हार का इन्हें ज्ञान नहीं है ॥ ६२ ॥
श्रावर्तशोमा नतनाभिकान्तेर्मङ्गो भ्रवां द्वन्द्वचराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३ ॥ विलासिनीनां विलसनशीलानां स्त्रीणाम् । 'वौ कषलसकत्थस्रम्भः' इति घिनुण्प्रत्ययः। रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तोन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह-नतनाभिकान्तेनिम्ननाभिशोभाया आवर्तशोभा। ‘स्यादावर्तोऽम्भसा भ्रमः' इत्यमरः । ध्रुवां भङ्गस्तरङ्गः । स्तनानां द्वन्द्वचराश्चक्रवाकाः । उपमानमिति सर्वत्र संबध्यते ॥
अन्वयः-विलासिनीनां रूपावयवोपमानानि अदूरवर्तीनि जातानि, नतनाभिकान्तेः आवर्तशोभा, भ्रुवां भंगः स्तनानां द्वन्द्वचराः।
व्याख्या-विलसनं विलासः, विलासः= शृंगारादिचेष्टा अस्त्यासां ताः विलासिन्यस्तासा विलासिनीनां = क्रीडासक्तानामन्तःपुरसुन्दरीणां रूपाणाम् अवयवाः = अंगानि तेषाम् रूपावयवानाम् = उपमेयानामित्यर्थः यानि उपमानानि = उपमाः तानि रूपावयवोपमानानि यानि लोके प्रसिद्धानि तानि न दूरवर्तीनि, इति अदूरवानिसमीपस्थानि जातानि= बभूवुः, कस्य रूपस्य किमुपमानमेतदेव स्पष्टयति-नता = निम्ना=गभीरा चासो नाभिः = जठरमध्यगं बिलं, इति नत