________________
३५०
रघुवंशे
समासः–नौः संश्रयः यस्य स नौसंश्रयः। रागस्य दर्शी रागदों, मजने रागदी मज्जनरागदी। परस्परं यदभ्युक्षणमिति परस्पराभ्युक्षणं तस्मिन् परास्तासां परस्पराभ्युक्षणतत्पराणाम् । पावें गता तां पार्श्वगताम् । उपात्तं बालव्यजनं यया सा ताम् ।
हिन्दी-आपस में ( एक दूसरी के ऊपर ) जल के छींटे देने में तत्पर ( मस्त ) उन रानियों की जल क्रीड़ा ( जल विहार ) के प्रेम को देखकर नौका में बैठे राजा कुश, पास में खड़ी चमर डुलाने वाली किराती से कहने लगे ॥ ५७ ॥
पश्यावरोधः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
सध्योदयः साभ्र इवैष वर्ण पुष्यत्यनेकं सरयूप्रवाहः ॥ ५८ ॥ गलिताङ्गरागैर्मदीयैः शतशोऽवरोधैविगाह्यमानो विलोड्यमान एष सरयप्रवाहः। साभ्रः समेवः संध्योदयः संध्याविर्भाव इव। अनेकं नानाविधं वर्ण रक्तपीतादिकं पुष्यति पश्य । वाक्यार्थः कर्म ॥
अन्वयः-गलितांगरागैः मदीयैः शतशः अवरोधैः विगाह्यमानः एषः सरयूप्रवाहः, साभ्रः सन्ध्योदय इव अनेक वर्ण पुष्यति ( इति ) पश्य ।
व्याख्या-गलितः = च्युतः, क्षालितः अंगस्य = शरीरस्य रागः = कुंकुमादिः येषां ते तैः गलितांगरागैः मम इमे मदीयास्तैः मदीयैः = मत्संबन्धिभिः शतशः = बहुभिरित्यर्थः अवरोधैः = राजदारैः "अवरोधः राजदारा" इति मेदिनी। विगाह्यते इति विगाह्यमानः = आलोड्यमानः एषः = पुरोदृश्यमानः सरय्वाः = एतन्नामनद्याः प्रवाहः = वेगः इति सरयूप्रवाहः “वेगः प्रवाहजवयोः" इत्यमरः। अभैः= मेधैः सहितः साभ्रः = मेघयुक्तः । सम्यक् ध्यायन्त्यस्यां सन्ध्या, तस्याः उदयः =आविर्भावः इति सन्ध्योदयः इव = यथा अनेक = नानाविधं वर्ण = रक्तपीतादिकं पुष्यति = पुष्टं करोति इति त्वं पश्य = अवलोकय।
समासः-गलितः अंगस्य रागः येषां ते तैः गलितांगरागैः। सन्ध्यायाः उदयः सन्ध्योदयः। अभैः सह वर्तमानः साभ्रः । सरय्वाः प्रवाहः सरयूप्रवाहः ।
हिन्दी-जिनके शरीर में लगा केसर कस्तूरी चन्दनादि अंगराग धुल गया, ऐसी मेरे रनवास की सैंकड़ों रानियों के अवगाहन :( जल में पैठकर स्नान करने ) से सरयू नदी की धारा ऐसी रंगविरंगी शोभा प्राप्त कर रही है, मानो मेघों से घिरी सन्ध्या आ गई है। यह तुम देखो ॥ ५८॥
विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौललितामिरद्भिः ।
तद्वध्नतीभिर्मदरागशोमां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९ ॥ नौलुलिताभिनौंक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदअनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बनतीभिर्घटयन्तीभिरद्भिरासां प्रतिमुक्तं प्रत्यर्पितम् । प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ॥