________________
३४०
रघुवशे
चासौ शोभा = कान्तिः, इति पुराणशोभा तां पुराणशोभाम् : अधिरोपितायां = कृतायां तस्यां वसन्त्यत्रेति वसतिः तस्यां वसतौ = अयोध्यायां वसन् = निवासं कुर्वन् दिवः = स्वर्गस्य भत्रें = इन्द्राय तथा अलति = भूषयतीति अलका तस्याः ईश्वरः = कुबेरः तस्मै अलकेश्वराय अपि न स्पृहयाम्बभूव = न स्पृहयाञ्चकार । इन्द्रं कुबेरञ्चापि न गणयामासेत्यर्थः ।
समासः - पुराणा चासौ शोभा पुराणशोभा तां पुराणशोभाम् । अलकाया ईश्वरः अलकेश्वरस्तस्मै अलकेश्वराय ।
हिन्दी - मिथिलेशकुमारी के पुत्र कुश ने, अपनी पुरानी शोभा एवं ऐश्वर्य वैभव को प्राप्त हुई, उस अपने पूर्वजों की राजधानी अयोध्या में रहते हुए, स्वर्ग के राजा इन्द्र, तथा अलका पुरी के राजा कुबेर की भी स्पृहा को छोड़ दिया । अर्थात् इन्द्र बनने एवं कुबेर बनने की भी इच्छा नहीं रखी ॥ ४२ ॥
कुशस्य कुमुद्वतीसंगमं प्रस्तौति
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तन लम्बिहारम् । निःश्वासहार्यांशुकमाजगाम धर्मः प्रियावेषमिवोपदेष्टुम् ॥ ४३ ॥
अथास्य कुशस्य । रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम् । एकान्तमत्यन्तं पाण्ड्वोः स्तनयोर्लम्बिनोहारा यस्मिंस्तम् । निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम् । एवं शीतलप्रायं प्रियाया वेषं नेपथ्यमुपदेष्टुमिव घर्मो ग्रीष्म आजगाम ॥
अन्वयः—अथ अस्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारम् निश्वासहार्यांशुकम् प्रियावेषम् उपदेष्टुम् इव धर्म: आजगाम ।
व्याख्या—अथ=अनन्तरम् अस्य = राज्ञः कुशस्य रत्नैः = मुक्ताहीर कमणिभिः ग्रथितानि = गुम्फितानि उत्तरीयाणि = संव्यानानि, उपरिधार्यवस्त्राणीत्यर्थः । यस्मिन् स तम् रत्नग्रथितोत्तरीयम्, संव्यानमुत्तरीयमित्यर्थः, एकान्तम् = अत्यन्तं पाण्डू = धवलौ यौ स्तनौ = कुचौ तयोः लम्बिनः=लम्बमानाः हाराः = मौक्तिकमालाः यस्मिन् स तम् एकान्तपाण्डुस्तनलम्बिहारम्, निश्वासैः = श्वासप्रश्वासैः आहार्याणि = आहर्तुं योग्यानि अतिसूक्ष्माणीत्यर्थः, अंशुकानि = वस्त्राणि यस्मिन् स तं निश्वासहार्यांशुकम्, अतिशीतलम्, प्रियायाः = कान्तायाः वेषः = नेपथ्यं तं प्रियावेषम् उपदेष्टुं = कथयितुं स्मारयितुमित्यर्थः । इत्र = यथा धर्मः = ग्रीष्मः आजगाम =
सम्प्राप्तः ।
समास:
: - रत्नैः ग्रथितानि उत्तरीयाणि यस्मिन् स तं रत्नग्रथितोत्तरीयम् । एकान्तं पाण्डू चतौ स्तनौ एकान्तपाण्डुस्तनौ, तयोः लम्बिनः हाराः यत्र स तम् एकान्तपाण्डुस्तनलम्बिहारम् । निश्वासैः हार्याणि अंशुकानि यस्मिन् स तं निश्वासहार्यांशुकम् । प्रियायाः वेषस्तं प्रिया वेषम् । हिन्दी - अयोध्या के फिर से मानों राजा कुश को उस प्रिया के
सुसम्पन्न होते ही ग्रीष्म ऋतु आ गया, जिसने आते ही वेष-भूषा का स्मरण करा दिया, जिसकी चुनरी में हीरा