________________
रघुवंशे
अन्वयः— कालान्तरश्यामसुधेषु इतस्ततः रूढतृणांकुरेषु हम्र्म्येषु नक्तं मुक्तागुणशुद्धयः अपि ते एव चन्द्रपादाः न मूर्च्छन्ति ।
३२४
व्याख्या - कालस्य = समयस्य अन्तरं = भेदः इति कालान्तरं तेन श्यामा = = मलिना सुधा = चूर्णलेपः, येषु तानि तेषु कालान्तरश्यामसुधेषु, इतस्ततः = यत्र तत्र रूढाः = उत्पन्नाः तृणानां = घासानाम् अंकुराः = अभिनवोद्भिदः येषु तानि तेषु रूढतृणांकुरेषु हरन्ति मनांसीति - हर्म्याणि तेषु हर्म्येषु = धनिकभवनेषु नक्तं = रात्रौ मुक्तानां = मौक्तिकानां गुणाः = मालाः मुक्तागुणाः, मुक्तागुणानां शुद्धिः = नैर्मल्यम् इव शुद्धिः = स्वच्छता येषां ते मुक्तागुणशुद्धयः अपि ततः पूर्वं ये मूर्च्छन्ति स्म ते एव = प्रसिद्धा एव चन्द्रस्य = इन्दोः पादाः = इत्यर्थः, इति चन्द्रपादाः न मूर्च्छन्ति = न प्रसरन्ति ।
• रश्मयः, किरणा
समासः– कालान्तरेण श्यामा सुधा येषु तानि तेषु कालान्तरश्यामसुधेषु । रूढाः तृणानाम् अंकुराः येषु तानि रूढतृणांकुराणि तेषु रूढतृणांकुरेषु । मुक्तानां गुणाः मुक्तागुणाः, मुक्तागुणानां शुद्धि: इव शुद्धिः येषां ते मुक्तागुणशुद्धयः ।
हिन्दी - समय के अन्तर से ( इन दिनों सूने होने से ) जिनका चूना काला पड़ गया है। तथा इधर उधर घास जम गई है, ऐसे अयोध्या के महलों में रात के समय, अब से पहले जहाँ मोतियों की माला ( झालर ) चमचमाती थी, वहाँ अब मोती की माला के समान सुद चाँद की किरणें भी नहीं चमकती हैं । अर्थात् भवनों में पुता चूना काला पड़ गया है उसपर चाँदनी क्या चमकेगी ॥ १८ ॥
आवर्ज्य शाखाः सदयं च यासां पुष्प ण्युपात्तानि विलासिनीभिः । वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः ॥ १९ ॥
:
किंच । विलासिनीभिः सदयं शाखा लतावयवानावर्ज्यानमय्य यासां लतानां पुष्पाण्युपात्तानि गृहीताना मदीय उद्यानलताः वन्यैः पुलिन्दैम्लेंच्छविशेषैरिव वानरैः । उभयैरपीत्यर्थः। क्लिश्यन्ते पीड्यन्ते । क्लिश्नातेः कर्मणि लट् । 'भेदा: किरातशबरपुलिन्दा म्लेच्छजातयः'
इत्यमरः ॥
अन्वयः - किंच विलासिनीभिः सदयं शाखाः आवर्ज्य यासां पुष्पाणि उपात्तानि ताः एव मदीयाः उद्यानलताः वन्यैः पुलिन्दैः इव वानरैः क्लिश्यन्ते ।
व्याख्या - किंच | विलासाः = हावभावाः सन्ति यासु ताः विलासिन्यः ताभिः विलासिनीभिः = कामिनीभिः, सुन्दरीभिरित्यर्थः । दयया सहितं सदयं = कृपापूर्वकं शाख्यन्ते वृक्षाः याभिस्ताः शाखाः ताः=द्रुमांशान् आवर्ज्य = आनमय्य यासां = लतानां पुष्पाणि = कुसुमानिउपात्तानि = गृहीतानि, त्रोटितानि, ताः एवः = मम इमाः मदीयाः मत्संबन्धिन्यः उद्यानानाम् = आरामाणां लताः = वल्लर्य:, इति उद्यानलताः वने भवाः वन्यास्तैः वन्यैः = जांगलिकैः पुलिन्दैः किरातैः इव = यथा वने भवं = फलादि वानम् राति इति वानरः, वा = किंचित् नरः इति वा वानरः । वानरैः= कपिभिः क्लिश्यन्ते = पीड्यन्ते । “किरातशबर पुलिन्दा म्लेच्छजातय" इत्यमरः ।
=