________________
३१४
रघुवंशे
व्याख्या-अत्र = अनन्तरम् अर्ध रात्रेः अर्धरात्रः तस्मिन् अर्धरात्रे = निशीथे “अर्धरात्रनिशीथौ द्वौ” इत्यमरः। रात्रिमध्ये, इत्यर्थः। स्तिमिताः = स्थिराः, शान्ताः प्रदीपाः = दीपाः यस्मिन् तस्मिन् स्तिमितप्रदीपे सुप्ताः = निद्रांगताः जनाः = परिजनाः यस्मिन् तस्मिन् सुप्तजने शय्यतेऽत्र सा शय्या, शय्यायाः = शयनीयस्य गृहं =सद्म तस्मिन् शय्यागृहे प्रकर्षण बुद्धः प्रबुद्धः = जागृतः नतु सुप्तः कुशः = रामपुत्रः प्रवासेतिष्ठतीति प्रवासस्थः, प्रवासस्थस्य = परदेश स्थितस्य कलत्रं = भार्या इति प्रवासस्थकलत्रं तस्य वेषः इव वेषः = नेपथ्यं यस्याः सा तां प्रवासस्थकलत्रवेषां पूर्व न दृष्टा, इति अदृष्टपूर्वा ताम् अदृष्टपूर्वाम् = पूर्व कदाप्यनवलोकितां वनितां = महिलाम् अपश्यत् = दृष्टवान् । प्रोषितभर्तृकावेषधारिणी स्त्रियमवलोकितवानित्यर्थः ।
समासः-रात्रेः अर्धमिति अर्धरात्रस्तस्मिन् अर्धरात्रे। स्तिमिताः प्रदीपाः यस्मिन् तस्मिन् स्तिमितप्रदीपे। सुप्ताः जनाः यस्मिन् तस्मिन् सुप्तजने। शय्यायाः गृहं तस्मिन् शय्यागृहे । प्रवासस्थस्य कलत्रं, प्रवासकलत्रं तस्य वेषः इव वेषः यस्याः सा तां प्रवासस्थकलत्रवेषाम् । पूर्व दृष्टा दृष्टपूर्वा, न दृष्टपूर्वा अदृष्टपूर्वा ताम् अदृष्टपूर्वाम् ।।
हिन्दी-एक दिन आधी रात के समय, परिवार के सब लोग सो रहे थे तथा दीपक टिमटिमा रहे थे, ऐसे शयनकक्ष ( सोने के घर ) में महाराज कुश जाग रहे थे तभी उन्होंने प्रोषित भर्तृका ( जिसका पति परदेश में कार्यवश गया हो ) के वेष में, पहले कभी न देखी हुई स्त्री को देखा ॥ ४॥
सा साधुसाधारणपार्थिव द्धः स्थित्वा पुरस्तात्पुरुहूतम सः ।
जेतुः परेषां जयशब्दपूर्व तस्याञ्जलिं बन्धुमतो बबन्ध ।। ५ ।। सा वनिता साधुसाधारणपार्थिवर्द्धः सज्जनसाधारणराज्यश्रियः पुरुहूतभास इन्द्रतेजसः परेषां शत्रूणां जेतुबन्धुमतस्तस्य कुशस्य पुरस्तात्स्थित्वा जयशब्दः पूर्वं यथा तथाञ्जलिं बबन्ध ॥ __अन्वयः-सा साधुसाधारणपार्थिवर्द्धः पुरुहूतभासः परेषां जेतुः बन्धुमतः तस्य पुरस्थात् जयशब्दपूर्व यथास्यात्तथा अञ्जलिं बबन्ध ।
व्याख्या-सा= वनिता पार्थिवस्य = राज्ञः कुशस्य ऋद्धिः =समृद्धिः, राज्यश्रीः इति पार्थिवद्धिः, साधूनां = सज्जनानां साधारणां = सामान्यजनानां च ( कृते ) पार्थिवद्धिः यस्य स तस्य साधुसाधारणपार्थिवढ़ेः, पुरु = प्रचुरं हूतम् = आह्वानं यशेषु यस्य सः, पुरूणि हूतानि = नामानि यस्य वा पुरुहूतः, तस्य भाः इव भाः = दीप्तिः यस्य स तस्य पुरुहूतभासः परेषां = शत्रूणां जेतुः = विजेतुः, बन्धवः = बान्धवाः, सगोत्राः सन्त्यस्य बन्धुमान् तस्य बन्धुमतः तस्य = कुशस्य पुरस्थात् = अग्रेस्थित्वा = संस्थाय जयः इति शब्दः =जयोच्चारणं पूर्व = प्रथमंयस्मिन्कमणि तत् जयशब्दपूर्व यथास्यात्तथा अञ्जलिं = हस्तसंपुटम् बबन्ध ।
समासः-साधूनां सारणानाञ्च पार्थिवर्द्धिः यस्य स तस्य साधुसाधारणपार्थिवर्द्धः । पुरूणि हुतानि यस्य स पुरुहूतः, पुरुहूतस्य भाः इव भाः यस्य स तस्य पुरुहूतभासः । जय इति शब्दः पूर्व यस्मिन् कर्मणि तत् जयशब्दपूर्वम् ।