________________
पञ्चदशः सर्गः
२८५
ज्योतिः प्रचुराणि ज्योतिमयानि, नक्षत्रमयानि अपि धिष्ण्यानि = स्वस्थानानि हित्वा = त्यक्त्वा दिग्भ्यः = काष्ठाभ्यः, सर्वदिग्भ्यः इत्यर्थः। एनं = रामम् अभिजग्मुः समागताः। “धिष्ण्यं स्थाने गृहेभेऽग्नौ” इत्यमरः।
समासः-महान्तश्च ते ऋषयः महर्षयः ।।
हिन्दी-"राम ने सब लोकों के ऋषियों को आमंत्रित किया था “अतः” यज्ञ में आमंत्रित किये गये ( बुलाए गए ) महर्षिगण केवल पृथ्वीलोक के अपने आश्रम घर छोड़कर नहीं आए थे। अपितु सप्तर्षिमण्डल के दिव्य प्रकाशमय स्थान को भी छोड़ कर राम के अश्वमेध यज्ञ में आए थे ॥ ५९ ॥
उपशल्यनिविष्टस्तैश्चतुरमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ ६० ॥ चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्दारमुख्ययोध्या। उपशल्येपु ग्रामान्तेपु निविष्टः । 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः। तैर्महर्षिभिः । सद्यः सृष्टलोका पितामहस्येयं पैतामही तनूप॑तिरिव बभौ ॥
अन्वयः-चतुरमुखी अयोध्या उपशल्यनिविष्टैः तैः, सद्यः सृष्टलोका पैतामही तनुः इव बभौ ।
व्याख्या-चत्वारि = चतुःसंख्यकानि द्वाराणि = प्रवेशमार्गाः एव मुखानि आननानि यस्याः सा चतुर्दारमुखी अयोध्या साकेतनगरी शल्यमुपगतः उपशल्यम् । उपशल्येषु =ग्रामान्तेषु निविष्टाः = स्थिताः, तैः उपशल्यनिविष्टैः = उपनगरस्थितरित्यर्थः । “ग्रामान्त उपशल्यं स्यात्" इत्यमरः। तैः = महर्षिभिः समाने अहनि सद्यः = सपदि सृष्टाः = उत्पादिताः लोकाः =जनाः यया सा सृष्टलोका लोकपितृणां मरीच्यादीनाम् , अर्यमादीनां वा पिता, पितामहः, पितामहस्य इयं पैतामही = ब्राह्मी तनुः = शरीरम् , भूतिः श्व = यथा बभौ = शुशुभे ।
समासः–शल्यमुपगतानि उपशल्यानि। उपशल्येषु निविष्टास्तैः उपशल्यनिविष्टैः । चत्वारि द्वाराणि एव मुखानि यस्याः सा चतुर्दारमुखी । सृष्टाः लोका यया सा सृष्टलोका।
हिन्दी-अयोध्या के उपनगरों तथा आसपास के गाँवों में ठहरे हुए महर्षियों से ( जब वे नगर में प्रवेश करने लगे। चार द्वार रूपी मुखवाली अयोध्या नगरी ऐसी सुशोभित हो रही थो मानो तुरन्त सृष्टि करने वाले पितामह ( ब्रह्मा ) की चार मुख वाली मूर्ति हो ॥ ६० ॥
श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः।
अनन्यजानेः सैवासीधस्माजाया हिरण्मयी ॥ ६१ ॥ वैदेशास्त्यागोऽपि श्लाघ्यो वर्ण्य एव। कुतः । यस्मात् । प्राग्वंशः प्राचीनस्थूणो यज्ञशालाविशेषः तद्वासिनः । नास्त्यन्या जाया यस्य तस्यानन्यजानेः। 'जायाया निम्' इति समासान्तो