________________
२६२
रघुवंशे
कल्पितोऽसि इति शत्रुघ्नं संत तस्य शत्रुघ्नस्य जिघांसया हन्तुमिच्छया प्रांशुंमुन्नतं द्रुमम् । मुस्तास्तम्बमिव अक्लेशेनोत्पाटयामास ॥
अन्वयः—युग्मम् । राक्षसः अद्य मत्कुक्षेः, भोजनं नातिपर्याप्तम् आलक्ष्य, भीतेन इव धात्रा दिष्ट्या मे त्वम् उपपादितः “ असि” इति शत्रुघ्नं संत, तज्जिघांसया प्राशुं द्रुमं मुस्तास्तम्बम्
श्व उत्पाटयामास ।
-
व्याख्या - युग्मं द्वयोरेकस्यां क्रियायामन्वयात् । राक्षसः = लवणासुरः अद्य = अस्मिन्दिने कुष्यते = निष्कास्यते मलोऽस्मात् स कुक्षिः मम = लवणस्य कुक्षिः = उदरः, इतिमत्कुक्षिस्तस्य मत्कुक्षेः भुज्यते भोजनम् = भोज्यं मृगादिकम् अतिपर्याप्तं न भवतीति नातिपर्याप्तं = नात्यलं ममोदरपूरणाय न पर्याप्तमित्यर्थः, इति आलक्ष्य = दृष्ट्वा भीतेन = भययुक्तेन इव = यथा उत्प्रेक्षायाम् । विधात्रा = ब्रह्मणा दिष्टया = मम भाग्येन मे = मह्यं त्वम् = = शत्रुघ्नः उपपादितः = कल्पितः, प्रेषित इत्यर्थः। असि इति = एवं प्रकारेण शत्रुघ्नं - लक्ष्मणानुजं सन्त = भर्त्सयित्वा हन्तुमिच्छा जिघासा, तस्य = शत्रुघ्नस्य जिघांसा = मारणेच्छा तया तज्जिघांसया प्राशुम् = अत्युन्नतं द्रुमं = वृक्षं मुस्तयतीति मुस्ता । मुस्ताया = मुस्तकस्य स्तम्बः = गुल्मः, इति मुस्तास्तम्बस्तं मुस्तास्तम्बम् इव = यथा उत्पाटयामास = विदीर्णवान्, सरलतया अनायासेनोत्पाटितवानित्यर्थः। “कुरुविन्दो मेघनामा मुस्ता मुस्तक मस्त्रियाम् " स्तम्बगुल्मौ” इतिचामरः ।
समासः - न अतिपर्याप्तमिति नातिपर्याप्तम् । मम कुक्षिरिति मत्कुक्षिस्तस्य मत्कुक्षेः । तस्य जिघांसा तज्जिघांसा तया तज्जिघांसया । मुस्तायाः स्तम्बः तं मुस्तास्तम्बम् ।
हिन्दी – “शत्रुघ्न को देखकर " लवणासुर कहता कि आज मेरी उदरपूर्ति के लिये मृग आदि भोजन-पदार्थ पर्याप्त नहीं हैं । कम है । यह देखकर ब्रह्मा ने मानो डर कर भाग्य से तुम्हें भेज दिया है ॥ १८ ॥ इस प्रकार शत्रुघ्न को डरा-धमका कर और उसे मारने की इच्छा से एक बड़े भारी पेड़ को ऐसे ( सरलता से अनायास ) उखाड़ लिया, जैसे मोथा के डण्ठलों को उखाड़ लिया जाता है ।
विशेष – मुस्ता - मोथा एक प्रकार की कोमल घास, इसी का विशेष नागरमोथा है ॥ १९ ॥
सौमित्रेर्निशितैर्बाणैरन्तरा शकलीकृतः ।
गात्रं पुष्परजः प्राप न शाखी नैऋ तेरितः ॥ २० ॥
नैर्ऋतेरितो रक्षःप्रेरितः शाख्यन्तरा मध्ये निशितैर्बाणैः शकलीकृतः सन्सौमित्रेः शत्रुघ्नस्य गात्रं न प्राप किंतु पुष्परजः प्राप ॥
अन्वयः— नैर्ऋतेरितः शाखी अन्तरा निशितैः बाणैः शकलीकृतः सन् सौमित्रेः गात्रं न प्राप " किन्तु " पुष्परजः प्राप ।
-
व्याख्या - नियता ऋतिः घृणा यस्याः सा, निर्गता ऋतेः शुभात् इतिवा निर्ऋतिः = अलक्ष्मीः, तस्याः अपत्यं पुमान् नैर्ऋत:, तेन ईरितः = प्रेरितः, इति नैर्ऋतेरितः = लवणासुर प्रेरित
=