________________
२६०
रघुवंशे
अरण्यात् करं = बलिम् इव = यथा सत्त्वानां = जन्तूनां राशिम् = समूहम् आदाय = गृहीत्वा उपस्थितः= आगतः।
समासः-मधोः उपध्नः मधूपघ्नस्तं मधूपन्नम् । सत्त्वानांराशिः तां । हिन्दी-“इधर तो" वह शत्रुध्न मधूपन्न ( मथुरा) नगर में पहुँचे, और उधर रावण की बहन कुम्भीनसी का पुत्र लवणासुर भी जंगल से ढेर सारे प्राणियों ( पशुओं ) को मारकर इस प्रकार लेकर उपस्थित हुआ मानों भेंट लेकर आया हो ।
विशेषः-कुम्भी ( घड़िया ) के जैसी नाक वाली, रावण की बहन का नाम कुम्भीनसी था। उसका लड़का लवण था। मबु नामक दैत्य का उपन्न =आश्रय, स्थान, मथुरा नगरी ॥ १५ ॥
धूमधीम्रो वसांगन्धू ज्वालाबभ्रशिरोरुहः ।
क्रव्याद्णपरीवारश्चिताग्निरिव जंगमः ॥ १६ ॥ किंभूतो लवणः । धूम इव धूम्रः कृष्णलोहितवर्णः। 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः । वसागन्धो हृन्मेदोगन्धः। सोऽस्यास्तीति वसागन्धी। 'हृन्मेदस्तु वपा वसा' इत्यमरः । ज्वाला इव बभ्रवः पिशङ्गाः शिरोरुहाः केशा यस्य स तथोक्तः । 'विपुले नकुले विष्णौ बभ्रुः स्यात्पिङ्गले त्रिषु' इत्यमरः। क्रव्यं मांसमदन्तीति व्यादो राक्षसाः। तेषां गण एव परीवारो यस्य स तथोक्तः। अत एव जंगमश्चरिष्णुश्चिताग्निरिव स्थितः । कृशानुपक्षे धूमैधूम्रवर्णः। ज्वाला एव शिरोरुहाः । क्रव्यादो गृधादयः इत्यनुसंधेयम् ॥
अन्वयः-"किंभूतः लवणः ? इत्याह"-धूमधूम्र: वसागन्धी ज्वालाबभ्रुशिरोरुहः ऋव्याद्गणपरीवारः अत एव जंगमः चिताग्निः इव स्थितः । - व्याख्या-धूनोति, धूयते वा धूमः शिखिध्वजः='आन्धनप्रभवः' इत्यर्थः स इव धूम्रः=धूमलः, कृष्णरक्तवर्णः इति धूमधूम्रः । “भम्भोमरुद्वाहः खतमालः शिखिध्वजः, अग्निवाहस्तरी। इति कोशः “धूम्रधूमलौ कृष्णलोहिते” इति चामरः । वसायाः=वपायाः गन्धः = सुरभिः इति वसागन्धः, वसागन्धः अस्यास्ति स वसागन्धी “मेदस्तु वसा वपा" इत्यमरः । शुद्धमांसस्नेहगन्धवानित्यर्थः । ज्वाला=अर्चिः इव बभ्रवः पिशंगाः शिरोरुहाः=केशाः यस्य स ज्वालाबभ्रुशिरोरुहः, क्रव्यम् =आममांसम् अदन्तीति क्रव्यादः = राक्षसाः तेषांगणः= समूह एव परीवारः = परिजनः यस्य स क्रव्याद्गणपरीवारः अतएव गच्छतीति जंगमः=संचरिष्णुः चितायाः = चित्यायाः अग्निः=वह्निः इव = यथा स्थितः स लवणासुरः समुपस्थितः इत्यर्थः" चिता चित्या चितिः स्त्रियामित्यमरः। चिताग्निपक्षे-धूमः धूम्रवर्णा, ज्वाला एव तस्य केशाः, वसागन्धी, मांसभक्षका गृध्रकुक्कुरादयः चितामः परितः गच्छन्ति, तः परीवारवान् इत्यनुसंधेयम् । ... समासः-धूम इव धूम्र इति धूमधूम्रः। वसायाः गन्धः वसा गन्धः, सोऽस्यास्तीति वसागन्धी। ज्वालाया इव बभ्रवः शिरोरुहाः यस्य स ज्वालाबभ्रुशिरोरुहः । क्रव्यादां गणः