________________
प्रथमः सर्गः
७५
हिन्दी- हे राजन्, पहले एक समय तुम्हारे इन्द्र-भवन से भूलोक आते समय मार्ग में कल्पवृक्ष की छाया में कामधेनु बैठी हुई थी ॥७५।।
धर्मलोपभयाद्राज्ञीमृतुस्नातामिमां स्मरन् ।
प्रदक्षिणक्रियाएयां तस्यां त्वं साधु नाचरः॥ ७६॥ सञ्जीविनी--ऋतुः पुष्पम् । रज इति यावत् । 'ऋतु: स्त्रीकुसुमेऽपि च' इत्यमरः । ऋतुना निमित्तेन स्नातामिमां राजी सुदक्षिणां धर्मस्यत्वभिगमनलक्षणस्य लोपाद् भ्रंशाद्यद् भयं तस्मात्स्मरन्ध्यायन् । 'मदं गां देवतं विप्रं घतं मध चतुष्पथम् । प्रदक्षिणानि कुर्वीत विज्ञातांश्च वनस्पतीन् ॥' इतिशास्त्रात्प्रदक्षिणक्रियाहयां प्रदक्षिणकरणयोग्यायां तस्यां धेन्वां त्वं साधु प्रदक्षिणादिसत्कारं नाचरो नाचरितवानसि । व्यासक्ता हि विस्मरन्तीति भावः । ऋतुकालाभिगमने मनु:- ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा' इति । अकरणे दोषमाह पराशर:--'ऋतुस्नातां तु यो भायाँ स्वस्थः सन्नोपसर्पति । बालगोध्नापराधेन विध्यते नात्र संशयः ॥' इति ॥७६॥
अन्वयः--ऋतुस्नाताम्, इमाम, राजीम्, धर्मलोपभयात्, स्मरन्, प्रदक्षिणक्रियाहयाम्, तस्याम्, त्वम्, साधु, न, आचरः।
वाच्य०--स्मरता, त्वया, न, आचर्यत ।
व्याख्या-ऋतुना= रजसा, निमित्तेन स्नाता=कृतस्ताना, इति ऋतुस्नाता, ताम् ऋतुस्नाताम्, इमाम् = पुरोवर्तिनीम्, राज्ञीम् = महिषीं सुदक्षिणाम्, धर्मस्य
= सुकृतस्य, लोपः=भ्रंशः, इति धर्मलोपा, धर्मलोपात् भयम् = भीतिः, इति धर्मलोपभयम तस्मात् धर्मलोपभयात्, स्मरन् = अनुध्यायन्, प्रदक्षिणस्य = परिक्रमायाः, क्रिय.= कर्म, इति प्रदक्षिणक्रिया, अर्हति =योग्ग भवति, इति अर्हा प्रदक्षिणक्रियायाम् अर्हा इति प्रदक्षिणक्रियाहीं तस्याम् प्रदक्षिणक्रियाहयाम्, तस्याम् कामधेन्वाम्, त्वम् = दिलीपः, साधु = प्रदक्षिणादिसत्कारम्, न = बहि, आचरा= कृतवान् ।
समा०--ऋतुना स्नाता इति ऋतुस्नाता ताम् ऋतुस्नाताम् । धर्मस्य लोपः इति धर्मलोपः तस्मात् भयम् इति धर्मलोपभयम् तस्मात् धर्मलोपभयात् । प्रदक्षिणस्य क्रिया प्रदक्षिणक्रिया अहंति इति अर्हा, प्रदक्षिणक्रियायाम् अहा इति प्रदक्षिणक्रियाही तस्यां प्रदक्षिणक्रियाहयाम् ।