________________
प्रथमः सर्ग: सञ्जीविनी-इति राज्ञा विज्ञापित ऋषिानेन स्तिमिते लोचने यस्य ध्यानस्तिमितलोचनो निश्चलाक्षः सन्क्षणमात्रं सुप्तमीनो ह्रद इव तस्थौ ॥७३॥
अन्वयः-इति, राशा, विज्ञापितः, ऋषिः, ध्यानस्तिमितलोचनः, 'सन्' भनमात्रम्, सुप्तमीनः, हवा, इव, तस्यो।
वाच्य-विज्ञापितेन, ऋषिणा, ध्यानस्तिमितलोचनेन, सता, सुप्तमीनेन, ह्रदेन, इव तस्थे।
व्याख्या--इति = एवम्, राज्ञा = नृपेण, दिलीपेन, विज्ञापितः= निवेदिता, ऋषिः=मनिर्वसिष्टः, ध्यानेन =चिन्तनेन, स्तिमिते=निश्चले, लोचने =नेत्रे यस्य सः, ध्यानस्तिमितलोचनः, सन् क्षणमेव क्षणमात्र =क्षणरूपकालविशेषपर्यन्तम्, सुप्ताः=निद्रिताः, मीनाः= मत्स्याः यस्य सः सुप्तमीनः, हृदः=सरः, इवयथा, तस्थौ% स्थितवान् । ____समा०-ध्यानेन स्तिमिते लोचने यस्य सः, ध्यानस्तिमितलोचनः । सुप्ताः मीनाः यस्य स सुप्तमीनः।
अभि०-दिलीपप्रार्थनानन्तरं तत्कारणं शातुं वसिष्ठो नेत्रनिमीलनेन समाधी तथा क्षणमा निश्चलो बभूव यथा सुप्तमीनतया निस्तरङ्गः सरोवरः ।
हिन्दी--दिलीप की प्रार्थना के अनन्तर पुत्राभाव का कारण जानने के लिये महर्षि वसिष्ठ, मछलियों के सो जाने से तरङ्गरहित तालाब के समान क्षणमात्र निश्चल होकर समाधिस्थ हो गये ॥७३॥
सोऽपश्यत्प्रणिधानेन सन्ततेः स्तम्भकारणम् ।
भावितात्मा भुवो भर्तुरथेनं प्रत्यबोधयत् ॥७४॥ सञ्जीविनी--स मुनिः प्रणिधानेन चित्तकाग्येण भावितात्मा शुद्धान्तःकरणो भवो भर्तन पस्य संततेः स्तम्भकारणं संतानप्रतिबन्धकारणमपश्यत् । अथानन्तरमेनं नृपं प्रत्यबोधयत् । स्वदृष्टं ज्ञापितवानित्यर्थः । एनमिति 'गतिबुद्धि-' इत्यादिनाणि कर्तुः कर्मत्वम् ॥७॥ ___ अम्बयः-प्रणिधानेन, भावितात्मा, सा, भुवा, भर्तुः, सन्ततेः, स्तम्भकारणम्, अपत्या, बब, एनम्, प्रत्यबोषयत् ।
पाच्या-मावितात्मना अदृश्यत, एषः प्रत्यबोध्यत ।