________________
२२६
रघुवंशे सत्यसंधः सत्यप्रतिशः स लक्ष्मणो यन्त्रा सारथिना निगृहीतवाहाद्रुद्धाश्चाद्रथाद्भातृजायां पुलिनेऽवतार्यावरोप्य निषादेन किरातेनाहृतनौविशेष आनीतदृढनौकः सन्। गङ्गां भागीरथीम् । संधां प्रतिज्ञामिव ततार । 'संधा प्रतिज्ञा मर्यादा' इत्यमरः ॥
अन्वयः--सत्यसन्धः सः यंत्रा निगृहीतवाहात् रथात् तां भ्रातृजायां पुलिने अवतार्य निषादाहृतनोविशेषः सन् गंगां सन्धाम् इव ततार ।
व्याख्या--सत्या सन्धा= प्रतिज्ञा यस्य स सत्यसन्धः सः= लक्ष्मणः यंत्रासारथिना निगृहीताः= नियंत्रिताः वाहाः= अश्वाः यस्य स तस्मात् निगृहीतवाहात् रथात् = स्यन्दनात् तां =सीतां भ्रातुः जाया भ्रातृजाया तां भ्रातृजायां = प्रजावतीं "प्रजावती भ्रातृजाया" इत्यमरः । पुलिने = तटे अवतार्य = भूमौ, आरोग्य निषीदति पापमस्मिन्निति निषादः, निषादेन = किरातेन धीवरेणेत्यर्थः । आहृतः = आनीतः नौविशेषः = दृढनौका यस्य स निषादाहृतनौविशेषः सन् गंगां= भागीरथीं सन्धां = प्रतिज्ञाम् इव = यथा ततार = अतारीत् “सन्धा प्रतिशा मर्यादा" इत्यमरः ।
समासः-सत्या सन्धा यस्य स सत्यसन्धः । निगृहीताः वाहाः यस्य स तस्मात् निगृहीत. वाहात्। भ्रातुः जाया भ्रातृजाया तां भ्रातृजायाम् । निषादेन आहृतः नौविशेषः यस्य स निषादाहृतनौविशेषः।
हिन्दी-सत्य प्रतिज्ञा वाले लक्ष्मण जी, सारथी मुमंत्र के घोड़ों की लगाम खींचने से रुके रथ से अपनी भाभी को रेतोले तट पर उतार कर "फिर" मल्लाह से लाई हुई अच्छी मजबूत नाव से सीता के साथ मंगाजी तथा अपनी प्रतिज्ञा के भी पार हो गये। अर्थात् सीता को वन में छोड़ आवो, इस राम की आज्ञा का पालन करना रूपी प्रतिज्ञा के भी पार हो गये। पूरा कर दिया ॥ ५२ ॥
अथ व्यवस्थापितवाकथंचित्सौमित्रिरन्तर्गतबाष्पकण्ठः ।
औत्पातिक मेघ इवाश्मवर्ष महीपतेः शासनमुजगार ॥ ५३ ॥ अथ कथंचिद्वयवस्थापिता प्रकृतिमापादिता वाग्येन सः। अन्तर्गतबाप्पः कण्ठो यस्य सः। कण्ठस्तम्भिताश्रुरित्यर्थः । सौमित्रिमहीपतेः शासनम् । मेघ उत्पाते भवमौत्पातिकमश्मवर्ष शिलावर्षमिव । उजगारोद्गीर्णवान् । दारुणत्वेनावाच्यत्वादुजगारेत्युक्तम् ॥
अन्वयः--अथ कथंचित् व्यवस्थितवाक् अन्तर्गतबाष्पकण्ठः सौमित्रिः, महीपतेः शासनं मेघः औत्पातिकम् अश्मवर्षम् इव उज्जगार।
व्याख्या-अथ = गंगापारगमनानन्तरम् कथंचित् = महता कष्टेन व्यवस्थापिता = स्वाभाविकरूपमापादिता वाक् = वाणी येन स व्यवस्थापितवाक् अन्तर्गतानि = बाष्पाणि = अश्रूणि यस्य सः अन्तर्गतबाष्पः। अन्तर्गतबाष्पः = अश्रुव्याप्तः कण्ठः = गलः यस्य सः अन्तर्गतबाष्पकण्ठः "बाष्पमूश्माश्रु" "कण्ठो गलः" इति चामरः। सुमित्राया = अपत्यं पुमान् सौमित्रिः = लक्ष्मणः मयाः पृथिव्याः पतिः= स्वामी तस्य महीपतेः राशो रामचन्द्रस्य शासनम् = आशां