________________
रघुवंशे
प्रियदर्शनं यस्य तेन स्फुरता सव्येतरेण दक्षिणेनाक्ष्णास्यै सीताया आख्यातम् । स्त्रीणां दक्षिणा क्षिस्फुरणं दुर्निमित्तमाहुः ||
२२४
अश्वयः पथि लक्ष्मणः यत् तस्याः जुगूह, तत् गुरू भावि दुःखम् अत्यन्त लुप्तप्रियदर्शनेन स्फुरता सव्येतरेण अक्ष्णा अस्यै आख्यातम् ।
व्याख्या - पथि = मार्गे लक्ष्मणः = सौमित्रिः यत् = दुःखं जुगूह = अग्रहीत् । तद् गुरु = महद्भयंकरं भावि = भविष्यत् दुःखं = कष्टम् अन्तस्य अत्ययः, अत्यन्तं - भृशं, जीवनपर्यन्तमित्यर्थः लुप्तम् = नष्टं प्रियस्य = धवस्य दर्शनम् = अवलोकनं यस्य तत् तेन अत्यन्तलुप्तप्रियदर्शनेन सव्यादितरत् सव्येतरत्तेन सव्येतरेण = दक्षिणेन " वामं शरीरं तु सव्यंस्यात् " इत्यमरः । अक्ष्णा = नेत्रेण अस्यै = सीतायै आख्यातं = कथितम्, सूचितमित्यर्थः । स्त्रीणां दक्षिणांगस्फुरण मशुभसूचकं भवतीति शास्त्रात् ।
समासः - अत्यन्तं लुप्तं प्रियस्य दर्शनं यस्य तत् तेन अत्यन्त लुप्तप्रियदर्शनेन । सव्यादितरत् तेन सव्येतरेण ।
हिन्दी - मार्ग में लक्ष्मण ने जिस बात को सीता से छिपाया था । भारी तथा तुरन्त आने वाले उस महाकष्ट को फरकते हुए, उस दाहिने नेत्र ने सीता जो को सूचित कर दिया । जिस नेत्र से सदा के लिये प्रिय ( राम ) का दर्शन छूट गया है। स्त्रियों के दाहिने अंग का फरकना ज्योतिष में अशुभ माना है ॥ ४६ ॥
सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा |
राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यः ॥ ५० ॥
सा सीता दुर्निमित्तेन दक्षिणाक्षिस्फुरण रूपेणोपगतात्प्राप्ताद्विषादाद्दुः खात्सद्यः परिम्लानमुखारविन्दा सती सावरजस्य सानुजस्य राघो रामस्य शिवं भूयादित्यबाह्यैः करणैरन्तःकरणैराशशंसे । शंसतेरपेक्षायामात्मनेपदमिष्यते । करणैरिंति बहुवचनं क्रियावृत्त्यभिप्रायम् । पुनः पुनराशशंसेत्यर्थः ॥
अन्वयः - सा दुर्निमित्तोपगमात् विषादात् सद्यः परिम्लानमुखारविन्दा सती सावरजस्य राशः शिवं भूयात्, इति अबायैः करणैः अशशंसे ।
व्याख्या - सा = सीता दुष्टमशुभं च तन्निमित्तं = दक्षिणाक्षिस्फुरणं तेन उपगमः = प्राप्तस्तस्मात् दुर्निमित्तोपगमात् विषादात् = अवसादात् खिन्नतयेत्यर्थः । सद्यः = तत्क्षणे मुखमरविन्दम् इत्र इति मुखारविन्दम्, परिम्लानं = क्लान्तं = विषण्णं मुखारविन्दं = मुखकमलं यस्या सा परिम्लानमुखारविन्दा सती, अवरस्मिन् काले जाताः अवरजाः = अनुजाः तैः सहितः सावरजस्तस्य सावरजस्य राशः = रामचन्द्रस्य शिवं कल्याणं भूयात् = भवतु इति इत्थम् बहिर्भव बाह्यानि न बाह्यानि अबाह्यानि तैः अवायैः करणैः = अन्तःकरणैः आशंश से = पुनः पुनः प्रार्थयामासेत्यर्थः ।
समासः -- दुष्टञ्च तन्निमित्तमिति दुर्निमितं तेन उपगमस्तस्मात् दुर्निमित्तोपगमात् । मुख