________________
२१६
रघुवंशे
राजर्षिवंशस्य रविप्रसूते रुपस्थितः पश्यत कीदृशोऽयम् । मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य ॥ ३७ ॥
रवेः प्रसूतिर्जन्म यस्य तस्य राजर्षिवंशस्य सदाचारशुचेः सद्वृत्ताच्छुद्धान्मत्तो मत्सकाशात् । दर्पणस्य पयोदवातादिव । अम्भःकणादित्यर्थः । कीदृशोऽयं कलङ्क उपस्थितः प्राप्तः पश्यत ॥
अन्वयः - रविप्रसूतेः राजर्षिवंशस्य सदाचारशुचेः मत्तः ( सकाशात् ) दर्पणस्य पयोद - वातात् इव कीदृशः अयं कलङ्कः उपस्थितः ( इति ) पश्यत ।
व्याख्या - रवेः = सूर्यात् प्रसूतिः = उत्पत्तिः, जन्मयस्य स तस्य रविप्रसूतेः राज्ञां राजसुवा ऋषयः इव राजर्षयः, राजर्षीणां = राजश्रेष्ठानां वंशः = कुलं तस्य राजर्षिवंशस्य, मनुवंशस्येत्यर्थः सदाचारेण = सद्वृत्तेन शुचिः = शुद्ध इति सदाचारशुचिः तस्मात् सदाचारशुचेः मत्तः = मत्सकाशात् दर्पणस्य = आदर्शस्य पयांसि ददतीति पयोदाः = मेघास्तेषां वातः = बाष्पमिश्रितः पवनस्तस्मात् पयोदवातात् इव = यथा क इव दृश्यतेऽसौ, कस्य इव वा दर्शनमस्य कीदृशः : किम्प्रकारः अयं कलयतीति कल्, कल् चासौ अंकश्चेति कलंकः = अपवादः उपस्थितः = प्राप्तः, इति यूयं पश्यत = - अवलोक्यत ।
,
समासः - रवेः = प्रसूतिर्यस्य तस्य रविप्रसूतेः । राज्ञां ऋषयः इव इति राजर्षयः, राजर्षीणां वंशस्तस्य राजर्षिवंशस्य । सचासौ आचारः सदाचारः, सदाचारेण शुचिस्तस्मात् सदाचारशुचेः । पयोदानां वातः पयोदवात स्तस्मात् पयोदवातात् । कल् चासौ अंकः कलङ्कः ।
हिन्दी - सदाचारी होने के कारण मैं शुद्ध निष्कलंक हूँ फिर भी मेरे कारण सूर्यवंशी राजधियों के कुल में यह कलंक उसी प्रकार लगा है। जैसे कि वर्षाती वायु से ( भाप पड़ने से ) स्वच्छ दर्पण (आयना ) धुंधला हो जाता है ॥ ३७ ॥
पौरेषु सोऽहं बहुलीभवन्तमपां तरङ्गेष्विव तैलबिन्दुम् ।
सोढुं न तत्पूर्वमवर्णमीशे आलानिकं स्थाणुमिव द्विपेन्द्रः ॥ ३८ ॥
सोऽहम् । अपां तरङ्गेषु तैलबिन्दुभिव पौरेषु बहुलीभवन्तं प्रसरन्तम् । स एव पूर्वो यस्य सतं । तत्पूर्वमवर्णमपवादम् । 'अवर्णाक्षेपनिर्वादपरीवादापवादवत्' इत्यमरः । द्विपेन्द्रः । आलानमेवालानिकम् । विनयादित्वात्स्वार्थे ठक् । अथवालानं बन्धनं प्रयोजनमस्येत्यालानिकम् । 'प्रयोजनम्' इति ठक् । स्थाणुं स्तम्भमिव । चूतवृक्ष इतिवत्सामान्यविशेषभावादपौनरुक्त्यं द्रष्टव्यम् । सोढुं नेशे न शक्नोमि ॥
अन्वयः—सः अहम् अपां तरंगेषु तैलबिन्दुम् इत्र पौरेषु बहुलीभवन्तं तत्पूर्वम् अवर्ण द्विपेन्द्रः आलानिकं स्थाणुम् इव सोढुं न ईशे ।
व्याख्या – सोऽहम् = एवंभूतो रामः अपां = जलानां तरंगेषु = वीचिषु तिलस्य, तत्सदृशरयवाविकार सैलम् तस्य तैलस्य = स्नेहस्य बिन्दुः = पृषतः, इति तैलबिन्दुः इव यथा पुरे भवाः पौरारतेषु पौरेषु = नागरिकेषु न बहुल: अबहुल: अबहुल: बहुलः भवन् बहुलीभवन तं बहुली -
=