________________
चतुर्दशः सर्गः
संजीवनं मैथिलकन्यकायाः सौन्दर्यसर्वस्वमहानिधानम् ।
शशाङ्कपङ्केरुहयोः समानं रामस्य वन्दे रमणीयमास्यम् ।। भर्तुः प्रणाशादथ शोचनीयं दशान्तरं तत्र समं प्रपन्ने ।
अपश्यतां दाशरथी जनन्यौ छेदादिवोपनतरोतत्यौ ॥ १ ॥ अथोपवनाधिष्ठानानन्तरं दाशरथी रामलक्ष्मणौ। उपनतरोराश्रयवृक्षस्य । 'उपन्न आश्रय इति निपातः । तस्य छेदाव्रतत्यौ लते इव । 'वल्ली तु व्रततिर्लता' इत्यमरः। भर्तुर्दशरथस्य प्रणाशाच्छोचनीयं दशान्तरमवस्थान्तरम् । 'अवस्थायां वस्त्रान्ते स्याद्दशापि' इति विश्वः । प्रपन्ने प्राप्ते जनन्यौ कौसल्यासुमित्रे तत्र साकेतोपवने समं युगपदपश्यताम् । दृशेः कर्तरि लङ् ॥
अन्वयः--अथ दाशरथी उपनतरोः छेदात् व्रतत्यौ इव भर्तुः प्रणाशात् शोचनीयं दशान्तरं प्रपन्ने जनन्यौ तत्र समम् अपश्यताम् । ___ व्याख्या-अथ = साकेतोपवनाधिष्ठानानन्तरम् दशरथस्य राशः अपत्ये पुमांसौ दाशरथी= रामलक्ष्मणौ उपहन्यते इति उपनः = समीपाश्रयः “स्यादुपनोऽन्तिकाश्रये" इत्यमरः। उपघ्नश्चासौ तरुः = वृक्षस्तस्य उपध्नतरोः छेदात् = कर्तनात् व्रतत्यौ लते इव = यथा “वल्लो तु व्रततिर्लता" इत्यमरः । विभोंति भर्ता तस्य भर्तुः= स्वामिनः दशरथस्य प्रणाशात्म रणात् शोचितुं योग्य शोचनीयं = शोच्यम् अन्या दशा दशान्तरम् = अवस्थान्तरम् , वैधव्येन मालिन्यमित्यर्थः । प्रपन्ने =गते जनन्यौ = मातरौ कौसल्यासुमित्रे तत्र = उपवने समं = युगपत् , एकस्मिन्नेव काले इत्यर्थः । अपश्यताम् = अदर्शताम् , इत्यर्थः ।
समासः-उपन्नश्चासौ तरुः उपनतरुस्तस्य उपघ्नतरोः । अन्या दशा दशान्तरम् तत् ।
हिन्दी-अयोध्या के उपवन में, पहुँचकर राम लक्ष्मण ने, अपने आश्रय के वृक्ष के, कट जाने, से ( जिस वृक्ष पर लता चढ़ी हो ) मुरझाई हुई लताओं के समान स्वामो ( पति ) के मर जाने से उदासी में मलीन मुरझाई हुई अपनी माता कौसल्या तथा सुमित्रा को एक साथ देखा।
उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ।
विस्पष्टमसान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भात् ॥२॥ यथाक्रमं स्वस्वमातृपूर्वकं प्रणतौ नमस्कृतवन्तौ हतारी हतशत्रुको विक्रमशोभिनौ तावुभौ रामलक्ष्मणावुभाभ्यां मातृभ्यामनरश्रुभिरन्धतया हेतुना । 'अस्रमश्रु च शोणितम्' इति यादवः । विस्पष्टं न दृष्टौ किंतु सुतस्पर्शेन यत्सुखं तस्योपलम्भादनुभवाज्शातौ ॥