________________
त्रयोदशः सर्गः
१८९
कान्ति ( चाँदनी) को बचाती है उसी प्रकार रामचन्द्र ने दश शिरवाले रावण रूपी सकट से उद्धार की गई, धैर्यवाली ( सन्तोषी ) जनकनन्दिनी सीताजी को भरत ने विमान में प्रणाम किया। ७७ ॥
लङ्केश्वरप्रणतिभङ्गदृढव्रतं त
द्वन्द्यं युगं चरणयोर्जनकात्मजायाः । ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधो
रन्योन्यपावनमभूदुभयं समेत्य ॥ ७८ ॥ लङ्घश्वरस्य रावणस्य प्रणतीनां भङ्गेन निरासेन दृढव्रतमखण्डितपातिव्रत्यमत एव वन्धं जनकात्मजायाश्चरणयोयुगं ज्येष्ठानुवृत्त्या जटिलं जटायुक्तं साधोः सज्जनस्यारय भरतस्य शिरश्चेत्युभयं समेत्य मिलित्वान्योन्यस्य पावनं शोधकमभूत् ।। ___ अन्वयः-लंकेश्वरप्रणतिभंगदृढव्रतं वन्धं तत् जनकात्मजायाः चरणयोः युगं, ज्येष्ठानुवृत्तिजटिलं साधोः अस्य शिरः च उभयं समेत्य अन्योन्यपावनम् अभूत् ।
व्याख्या लाक्यते = आस्वाद्यते सुखमस्यां सा, रमन्तेऽस्यां वा सा लंका, ( बाहुलकात् कप्रत्ययः रस्य लत्वञ्च ) लंकायाः= रक्षःपुर्याः ईश्वरः = स्वामी, रावणः, इति लंकेश्वरस्तस्य प्रणतयः=प्रणामाः, प्रगामप्रार्थना इत्यर्थः । तासां भंगः = तिरस्कारस्तेन दृढम् = अखण्डितं व्रतं पतिव्रतारूपं यस्य तत् लंकेश्वरप्रणतिभंगदृढव्रतम् , अत एव वन्यं = वन्दनीयं पूज्यं तत् = प्रसिद्धं जनकस्य = विदेहस्य आत्मजा=पुत्री, तस्याः जनकात्मजायाः सीतायाः चरणयोः पादयोः युगं द्वयम् अनुगम्य वर्तनं = चित्तानुराधनम् अनुवृत्तिः । ज्येष्ठस्य = ज्येष्ठभ्रातुः रामस्य अनुवृत्तिः==भक्तिस्तया ज्येष्ठानुवृत्त्या जटा अस्ति अस्य तत् जटिलं = प्रवृद्धश्मश्रु साधोः= सज्जनस्य अस्य =भरतस्य शिरः= मस्तकञ्च, इति उभयं = द्वयं समेत्य = संगत्य अन्योन्यस्य-- परस्परस्य पावनं = शोधकमिति अन्योन्यपावनम् अभूत् =जातम् ।
समासः-लंकायाः ईश्वरः लंकेश्वरः, लंकेश्वरस्य प्रणतयः लंकेश्वरप्रणतयः, लंकेश्वरप्रणतीनां भंगेन दृढं व्रतं यस्य तत् लंकेश्वरप्रणतिभंगदृढव्रतम् । जनकस्य आत्मजा जनकात्मजा, तस्याः जनकात्मजायाः। ज्येष्ठस्य अनुवृत्तिः, ज्येष्ठानुवृत्तिस्तया ज्येष्ठानुवृत्त्या जटिलमिति ज्येष्ठानुवृत्तिजटिलम् । अन्योन्यस्य पावनमिति अन्योऽन्यपावनम् ।
हिन्दी-रावण की प्रणय-प्रार्थना को अस्वीकार करने से दृढ़, स्थिर व्रत वाले, अत एव वन्दना के योग्य, जनकपुत्री सीताजी के दोनों चरण, तथा बड़े भाई की भक्ति के कारण बढ़ी हुई जटावाला, सज्जन भरतजी का मस्तक, ये दोनों मिलकर आपस में एक ने दूसरे को पवित्र कर दिया। अर्थात् सीताजी के पवित्र चरण से भरतजी का मस्तक, और रामभक्ति से जटा धारी भरत के शिर से सीता चरण, पवित्र हो गया, अर्थात् भरत ने सोताजी के चरणों में माथा रखकर प्रणाम किया ।। ७८ ।।