________________
त्रयोदशः सर्गः
सत् ज्योतिषां = नक्षत्राणां पन्थाः == मार्गः तस्मात् ज्योतिष्पघात् = आकाशादित्यर्थः । अवाततार= भूमौ अवतीर्णम् ।
समासः - अधिका देवता अधिदेवता तया अधिदेवतया । ज्योतिषां पन्थाः ज्योतिष्पथः तस्मात् ज्योतिष्पथात् । विस्मयेन सह वर्तमानाः सविस्मयास्ताभिः सविस्मयाभिः । भरतस्य अनुगाः भरतानुगास्ताभिः भरतानुगाभिः ।
हिन्दी - दशरथपुत्र राम के इतना कह चुकने पर ( इस प्रकार पूर्वोक्तवर्णन करने पर ) और राम की इच्छा को ही प्रधान रूप से जानकर ( चलने व रुकने में राम की इच्छा ही प्रेरक थी ) पुष्पक विमान आकाश से नीचे उतर आया। उस समय भरत जी के पीछे-पीछे चलने वाली जनता आश्चर्य में भरकर विमान को देख रही थी ॥ ६८ ॥
तस्मात्पुरःसरविभीषणदर्शितेन
१८१
सेवाविचक्षण हरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन
मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥
रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बो यस्य तादृशः सन् । स्थलज्ञत्वात्पुरःसरो विभीषणस्तेन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छि त्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् । तरतेर्लङ् ॥
अन्वयः - रामः सेवाविचक्षणहरीश्वरदत्तहस्तः सन् पुरःसरविभीषणदर्शितेन अदूरमही - तलेन भंगिरचितस्फटिकेन मार्गेण तस्मात् यानात् अवातरत् ।
व्याख्या - विचष्टे इति विचक्षणः । हरीणां वानराणामीश्वरः = स्वामी हरीश्वरः सेवायां = परिचर्यायां, परचित्तानुवर्तने इत्यर्थः । विचक्षणः पण्डितः यो हरीश्वरः = वानरराजः सुग्रीवः तेन दत्तः=अवलम्बनाय प्रसारितः हस्तः करः यस्य स सेवाविचक्षणहरीश्वरदत्तहस्तः सन्, रामः पुरः=अग्रे सरति = गच्छतीति पुरःसरः । विशेषेण भीषयतीति विभीषणः । पुरःसरः=अग्रगः यः विभीषणस्तेन दर्शितः = प्रदर्शितस्तेन पुरःसरविभीषणदर्शितेन, न दूरमिति अदूरं = समीपं मह्या:= पृथिव्याः तलं यस्य स तेन अदूरमहीतलेन, स्फटिकः = स्वनामप्रसिद्धः मणिः । भंगिभिः = रचनाप्रकारविशेषैः, चमत्कारपूर्वकमित्यर्थः रचिताः खचिताः स्फटिकाः=मणयः यस्मिन् स तेन भंगिरचितस्फटिकेन, कौशलपूर्वकबद्धमणिसोपानेनेत्यर्थः । मार्गेण तस्मात् यानात्= प्रसिद्धपुष्पकात् अवातरत् = अवतीर्णवान् । सुग्रीवहस्तमवलम्ब्य रामः विभीषणदर्शितस्फटिकसोपानमार्गेण पुष्पकादवतीर्णवानित्यर्थः ।
समासः - सेवायां विचक्षणः सेवाविचक्षणः । हरीणामीश्वरः हरीश्वरः । सेवाविचक्षणश्चासौ हरीश्वरः इति सेवाविचक्षणहरीश्वरः, तेन दत्तः हस्तः यस्य स तथोक्तः ।