________________
प्रयोदशः सगः
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा मामग्रंपाणिर्मरतोऽभ्युपैति ॥ ६६ ॥ असौ पदातिः पादचारी चीरवासा वल्कलवसनो भरतः पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन् । 'नघृतश्च' इति कप् । गुरुं वसिष्ठं पुरस्कृत्य वृद्धरमात्यैः सहाय॑पाणिः सन्मामभ्युपैति ॥ ___ अन्वयः-असौ पदातिः चीरवासा भरतः पश्चात् अवस्थापितवाहिनीकः सन् गुरुं पुरस्कृत्य वृद्धैः अमात्यैः सह अर्घ्यपाणिः सन् माम् अभ्युपैति ।
व्याख्या-पादाभ्याम् अतति = गच्छतीति पदातिः = पदगः पादचारीत्यर्थः। चीयते इति चीरं = चीवरं वासः = वस्त्रं यस्य स चीरवासाः = वल्कलधारीत्यर्थः। भरतः = मेऽनुजः वाहाः सन्त्यस्यां सा वाहिनी । पश्चात् = पृष्टे अवस्थापिता = कृता वाहिनी=सेना येन स पश्चादवस्थापितवाहिनीकः सन् गृणाति धर्मादि गिरति, अज्ञानं वा गुरुः । तं गुरुं = वसिष्ठं पुरः = अग्रे कृत्वा इति पुरस्कृत्य वृद्धः = स्थविरैः अमा =सह, समीपे वा भवाः अमात्यास्तैः अमात्यैः = मंत्रिभिः सह = सार्धम् अर्घायेदम् अर्यम् । अय॑म् = उपहारः पाणौ = हस्ते यस्य सः अयंपाणिः सन् , उपहारभूतं वस्तु हस्ते धृत्वा इत्यर्थः मां = रामम् अभ्युपैति = आगच्छति ।
समासः-चीरं वासः यस्य स चीरवासाः । पश्चात् अवस्थापिता वाहिनी येन स पश्चादवस्थापितवाहिनीकः। पुरः कृत्वा, इति पुरस्कृत्य । अर्ध्य पाणौ यस्य सः अर्घ्यपाणिः ।
हिन्दी-"यह देखो" वल्कल धारण किये नंगे पैर चलता हुआ, और हाथ में पूजा की सामग्री लिये, सेना को पोछे करके, तथा गुरु वसिष्ठजी को आगे करके भरत, बूढे मंत्रियों के साथ मेरे समीप आ रहा है ॥६६॥
पिना विसृष्टां मदपेक्षया यः श्रियं युवाप्यंकगतामभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम् ॥ ६७ ॥ यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि । यां श्रियं युवापि मदपेक्षया मद्भक्त्या भोक्ता सन् । तृन्नन्तत्वात् 'न लोक-' इति षष्ठीनिषेधः। इयन्ति वर्षाण्येतावतो वत्सरान् । अत्यन्तसंयोगे द्वितीया । तया श्रिया सह । स्त्रियेति च गम्यते । उग्रं दुश्चरमासिधारं नाम व्रतमभ्यस्यतीव वतेयतीव । 'युवा युवत्या सार्थं यन्मुग्धभर्तृवदाचरेत् । अन्तर्विवृत्तसङ्गः स्यादसिधारव्रतं हि तत् ॥' इति यादवः । इदं चासिधाराचंक्रमणतुल्यत्वादासिधारव्रतमित्युक्तम् ॥
अन्वयः-यः पित्रा विसृष्टाम् अंकगतां यां श्रियं युवा अपि मदपेक्षया अभोक्ता सन् इयन्ति वर्षाणि तया सह उग्रम् आसिधारं व्रतम् अभ्यस्यति इव ।
व्याख्या--यः =भरतः पाति = रक्षतीति पिता तेन पित्रा = जनकेन राजा दशरथेन "तातस्तु जनकः पिता" इत्यमरः। विसृष्टां = दत्ताम् अंके = उत्संगे, क्रोडे गता=प्राप्ता ताम् यां अंकगताम् अपि श्रियं = राज्यलक्ष्मी युवापि = तरुणः अपि मम = रामस्य, ज्येष्ठभ्रातुः अपेक्षा =