________________
त्रयोदशः सर्गः
१७१
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पङ्क्तिः । अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥ क्वचित्प्रमा चान्द्रमसी तमोमिश्छायाविलीनैः शबलीकृतेव । अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रष्विवालक्ष्यनमःप्रदेशा ॥ ५६ ॥ क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ ५७ ॥ हे अनवद्याङ्गि, यमुनातरङ्गभिन्न प्रवाहा व्यामिश्रीषा गङ्गा जाह्नवी विभाति । त्वं पश्य । केव । क्वचित्प्रदेशे प्रभया लिम्पन्ति संनिहितमिति प्रभालेपिभिरिन्द्रनीलरनु बद्धा । सहगुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति । अन्यत्र प्रदेश इन्दीवरैनीलोत्पलैरुत्खचितान्तरा । सहग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव। विभातीति सर्वत्र संबन्धः । क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां तेषां खगानां राजहंसानां पङ्क्तिरिव । 'राजहंसास्तु ते चनुचरणोहितैः सिताः' इत्यमरः। अन्यत्र बालागुरुणा दत्तपत्रा रचितमकरिकापत्रा भुवश्चन्दनकल्पिता भक्तिरिव। क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव। अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपक्तिरिव। क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति । शेषो व्याख्यातः। कलापकम् ॥
अन्वयः-हे अनवद्यांगि ! यमुनातरंगैः भिन्नप्रवाहा गंगा, क्वचित् प्रभालेपिभिः इन्द्रनीलैः अनुविद्धा मुक्तामयी यष्टिः इव विभाति, अन्यत्र इन्दीवरैः उत्खचिन्तान्तरा सितपंकजानां माला इव ( विभाति ) क्वचित् कादम्बसंसर्गवती प्रियमानसानां खगानां पंक्तिः इव ( विभाति ) अन्यत्र कालागुरुदत्तपत्रा भुवः चन्दनकल्पिता भक्तिः इव ( विभाति ) क्वचित् छायाविलीनैः तमोभिः शबलीकृता चान्द्रमसी प्रभा इव ( विभाति ) अन्यत्र रन्धेषु आलक्ष्यनमःप्रदेशा शुभ्रा शरदभ्रलेखा इव (विभाति) क्वचिच्च कृष्णोरगभूषणा भस्मांगरागा ईश्वरस्य तनुः इव विभाति इति त्वं पश्य ।
क्वचिदित्यादि श्लोकचतुष्ट्यात्मकेन कलापकेन गंगायमुनासंगमं वर्णयति-- व्याख्या-अवत्यस्मात् आत्मानम् अवद्यं न अवयं निद्यमिति अनवद्यम् । अनवद्यम् = अनिन्धम् , अतिसुन्दरम् अंग =शरीरं यस्याः सा अनवद्यांगो तस्याः संबुद्धौ हे अनवद्यां गि! सोते यमुनायाः = कालिन्द्याः तरंगाः = ऊर्मयः, तैः यमुनातरंगैः भिन्नः = मिश्रितः प्रवाहः यस्याः सा भिन्नप्रवाहा गच्छतीति गंगा =भागीरथी क्वचित् = कुत्रचित् स्थाने प्रभया = कान्त्या लिम्पन्ति =आच्छादयन्ति, इति प्रभाले पिनस्तैः प्रभालेपिभिः इन्दतीति इन्द्रः, इन्द्रवत् नीलास्तैः इन्द्रनीलः = मरकतमणिभिः अनुविद्धा= सह गुम्फिता मुक्ताः प्रचुराः मुक्तामयी = मौक्तिकपचुरा यष्टिः =हारावलिः इव -- यथा विभाति = शोभते। अन्यत्र = अन्यस्मिन् प्रदेशे, इन्दतीति = इन्दी लक्ष्मीस्तस्याः वरमिष्टमिति इन्दीवरम् । इन्दीवरैः= नीलकमले: उत्खचितं - गुम्फितम् अन्तरं मध्यो यस्याः सा उत्खचि तान्तरा= नीलकमलैः सह ग्रथितेत्यर्थः ।