________________
त्रयोदशः सर्गः
१५९
से तथा दूर से ऐसा जान पड़ रहा है मानों मेधों के बीच से जरा-जरा दीखता हुआ चन्द्रबिम्ब हो । शातकणि = सुन्दर कन्धों वाला अथवा पैने कानों वाला, यह अर्थ है ॥ ३८॥
पुरा स दर्भाङ्करमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिमीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ ३९ ॥ पुरा पूर्वस्मिन्काले दर्भाङ्करमात्रवृत्तिस्तन्मात्राहारो मृगैः सार्ध सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानाम सरसां यौवनम् । 'तद्धितार्थ-' इत्यादिनोत्तरपदसमासः । तदेव कूटबन्धं कपटयन्त्रमुपनीतः । 'उन्माथः कूटयन्त्रं स्यात्' इत्यमरः। किलेत्यैतिथे । मृगसाह. चोन्मृगवदेव बद्ध इति भावः ॥
अन्वयः-पुरा दीकुरमात्रवृत्तिः मृगैः सार्ध चरन् सः ऋषिः, समाधिभीतेन मघोना पञ्चाप्सरोयौवनकूटबन्धम् उपनीतः किल ।
व्याख्या–पुरा = पूर्वस्मिन् काले दर्भस्य = कुशस्य अंकुराः = अभिनवोद्भिदः द कुरा एव दीकुरमानं, दर्भाकुरमात्रं वृत्तिः = आहारः यस्य स दांकुरमात्रवृत्तिः, मृगैः = हरिणैः साध =सह चरन् = गच्छन् , भक्षयंश्च सः = ऋषिः, शातकर्णिः सम्यगाधीयतेऽस्मिन् मनः जनैरिति समाधिः। समावेः = तपसः भीतः त्रस्तः इति समाधिभीतस्तेन समाधिभीतेन मघोना= देवेन्द्रेण पञ्च च ताः अप्सरसः इति पञ्चाप्सरसः । पञ्चाप्सरसां = पञ्चदेवांगनानां यौवनं = तारुण्यं, तदेव कूटबन्धं = कपटयंत्र, तत् पञ्चाप्सरोयौवनकूटयंत्रम् उपनीतः =प्रापितः किल =इति ऐतिह्यम् ।
समासः-दर्भस्य अंकुराः दर्भाकुराः । दर्भाकुरा एव दर्भाकुरमानं, दर्भाकुरमानं वृत्तिः यस्य स दर्भाकुरमात्रवृत्तिः । समाधेः भीतः समाधिभीतस्तेन समाधिभीतेन । पञ्चानाम् अप्सरसां यौवनमिति पञ्चाप्सरोयौवनं तदेव कूटबन्धः तम् पश्चाप्सरोयौवनकूटबन्धम् ।
हिन्दी-पहले किसी समय ये महर्षि हरिणों के साथ चलते फिरते कुशा के अंकुरों को ही खाते थे। तब इनकी समाधि तपस्या से डरे इन्द्र ने "एक साथ" पाँच अप्सराओं के यौवनरूपी जाल में इन्हें फंसा दिया था। अर्थात् पाँच जवान अप्सराएँ भेजकर इन्द्र ने इनकी तपस्या भंग कर दी थी ॥ ३९ ॥
तस्यायमन्तर्हितसौधमाजः प्रसक्तसंगीतमृदङ्गघोषः।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ ४० ॥ अन्तहिं तसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकणेरयं प्रसक्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन्पुष्पकस्य चन्द्रशाला शिरोगृहाणि । 'चन्द्रशाला शिरोगृहम्' इति हलायुधः । क्षणं प्रतिश्रुद्भिः प्रतिध्वानैर्मुखरा ध्वनन्तीः करोति । 'स्त्री प्रतिश्रुत्प्रतिध्वाने' इत्यमरः ॥
अन्वयः-अन्तर्हितसौधमाजः तस्य अयं प्रसक्तसंगीतमृदंगघोषः वियद्गतः सन् पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ।