________________
त्रयोदशः सर्गः अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहमीक्षितानि ॥ ३१ ॥ अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यवियुक्तानि रथाङ्गनाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूर देशवर्तिना मया हे प्रिये, सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ॥
अन्वयः--अत्र अन्योन्यदत्तोत्पलकेसराणि अवियुक्तानि रथांगनाम्नां द्वन्द्वानि, ते दूरान्तरवर्तिना मया हे प्रिये ! सस्पृहम् ईक्षितानि ।
व्याख्या--अत्र = पम्पायाम् सरसि अन्योन्यस्मै = परस्परस्मै दत्तानि = अपितानि उत्पलानां = कमलानां केसराणि = किअल्कानि यस्तानि अन्योन्यदत्तोत्पलकेसराणि 'किंजल्कः केसरोऽस्त्रियामि'त्यमरः । न वियुक्तानि अवियुक्तानि = सदा सहचारीणि रथस्य अंगं रथांगं, रथांगस्य = चक्रस्य नाम = आह्वयो येषां ते रथांगनामानः = चक्रवाकाः । रथांगनाम्न्यश्च रथांगनामानश्चेति रथांगनामानः “पुमान् स्त्रिया" इत्येकशेषः । तेषां रथांगनाम्नां = चक्रवाकानां द्वन्द्वानि = मिथुनानि “स्त्रीपुंसौ मिथुनं द्वन्द्वम्" इत्यमरः। अन्तं राति = ददातीति अन्तरम् । दूरं च तदन्तरमिति दूरान्तरं दूरान्तरे = दूरदेशे वर्तते इति दूरान्तरवर्ती तेन दूरान्तरवर्तिना = दूरदेशस्थितेनेत्यर्थः, मया = रामेण हे प्रिये = हे सीते ! स्पृहया = अभिलाषया सहितं सस्पृहम् ईक्षितानि = अवलोकितानि । तस्मिन्नवसरे त्वामस्मार्षमित्यर्थः।।
समासः-उत्पलानां केसराणि उत्पलकेसराणि, अन्योन्यस्मै दत्तानि उत्पलकेसराणि यैस्तानि, अन्योन्यदत्तोत्पलकेसराणि । न वियुक्तानि अवियुक्तानि। स्पृहया सहितमिति सस्पृहम् । रथांगनाम्न्यश्च रथांगनामानश्चेति रथांगनामानः, तेषां रथांगनाम्नामित्येकशेषः ।
हिन्दी-इस पम्पा नामक सरोवर में एक-दूसरे को प्रेमपूर्वक कमल की केसर देने वाले, तथा सदा साथ रहने वाले चकवा-चकवी के जोड़ों को, हे प्रिये ! तुमसे दूर रहने के कारण मैंने प्रबल कामना लालसा, से देखा था। अर्थात् मैं विचारता था कि तुम मेरे पास होती तो मैं भी ऐसे ही करता ॥ ३१ ॥
इमां तटाशोकलतां च तन्वीं स्तनाभिरामरतबकाभिनम्राम् ।।
त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥ ३२ ॥ किंच स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमां तटाशोकरय लतां शाखामतस्त्वत्प्राप्तिबुध्द्या त्वमेव प्राप्तेति भ्रान्त्या परिरब्धुमालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुनिषिद्धः । नेयं सीतेति निवारितः । परिरब्धुकाम इत्यत्र 'तुं काममनसोरपि' इति वचनान्मकारलोपः ॥
अन्वयः-स्तनाभिरामस्तबकाभिनम्राम् तन्वीम् इमां तटाशोकलतां त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः साश्रुः अहं सौमित्रिणा निषिद्धः ।