________________
त्रयोदशः सर्गः
अन्वयः-हे भीरु ! यत्र पूर्वानुभूतम् कम्मोत्तरं तत्र उपहम् स्मरता मया गुहाविसारीणि घनगर्जितानि कथंचित् अतिवाहितानि ।
व्याख्या हेभीरु = भयशीले ! यत्र = शृंगे पूर्वमनुभूतः पूर्वानुभूतस्तं पूर्वानुभूतम् = पूर्वोपभुक्तम् कम्पः = प्रकम्पनम् उत्तरः = प्रधानं यस्मिन् तत् कम्पोत्तरं तव = सीतायाः उपगूढम् = आलिंगनम् स्मरता = ध्यायता मया = रामेण गुहायां = कन्दरायां विसतु - प्रसतु शीलं येषां तानि गुहाविसारीणि गुहासु प्रतिध्वनितानीत्यर्थः । घनानां = मेधानां गर्जितानि = स्तनितानि, इति घनगर्जितानि "स्तनित गर्जितं मेवनिर्वोपः" इत्यमरः, कथञ्चित् = महता कण्टेन अतिवाहितानि = गमितानि । कामोद्दीपकत्वेन तव विरहे तानि अतीव दुःखेन यापितानीत्यर्थः ।
समास -पूर्वमनुभूतं पूर्वानुभूतं तत् पूर्वानुभूतम् । कम्पः उत्तरः यस्मिन् तत् कम्पोत्तरम् तत् । गुहासु विसारोणि गुहाविसारीणि । घनानां मानतानि धनगर्जितानि ।
हिन्दी-हे भीरु ! इसी पर्वत की चोटो पर, मेवों की गर्जना सुनकर भय से तुम काँपती हुई मुझसे लिपट जाती थी। उस आलिंगन सुख का स्मरण करते हुए, मैंने गुफा में प्रतिध्वनित होकर ( गूंजकर ) फैली हुई मेवों की गर्जना ( गड़गड़ाहट ) को बड़े कष्ट से बिताया था । अर्थात् तुम्हारे वियोग में मेघगर्जन सुनकर तुम्हारा स्मरण मुझे बड़ा कष्ट देता था ॥ २८॥
आसारसिक्तक्षितिबाष्पयोगान्मामक्षिगोद्यत्र विभिन्नकोशैः । विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ २९ ॥ यत्र शृङ्गे विभिन्नकोशैविकसितकुडमलैर्नवकन्दलैः कन्दलोपुष्पैररुणवर्णैरासारेण धारासंपातेन । 'धारासंपात आसारः' इत्यमरः । सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोविंडम्ब्यमानानुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः । सादृश्यात्स्मर्थमाणेति शेषः । मामक्षिणोदपीडयत् ॥
अन्वयः-यत्र विभिन्नकोशैः नवकन्दलैः आसारसिक्तक्षितिवाष्पयोगात् विडम्ब्यमाना ते विवाहधूमारुणलोचनश्रीः माम् अक्षिणोत् ।
व्याख्या-यत्र = शिखरे विभिन्नः = विकसितः कोशः = कुड्मलः येषां तानि तैः विभिन्नकोशैः नवानि = नूतनानि यानि कन्दलानि = कन्दलीपुष्पाणि तैः नवकन्दलैः, रक्तवर्णंरित्यर्थः। “कोशोऽस्त्री कुड्मले” इत्यमरः। आसारेण = धारासंपातेन सिक्ता = क्लिन्ना, आद्रीकृतेत्यर्थः। या क्षितिः = पृथिवी, तस्याः वाष्पम् = ऊष्मा, धूमवर्गः तस्य योगः = सम्पर्कस्तस्मात् आसारसिक्तक्षितिबाष्पयोगात् "धारासंपात आमारः, बाष्पभूष्माश्रु'' इत्यमरः। हेतोः विडम्ब्यतेऽसौ विडम्ब्यमाना = अनुत्रियमाणा ते = तब सीतायाः विवाहस्य = विवाहसंबन्धिहोमस्य धूमः विवाहधूमस्तेन अरुणा रक्ता लोचनयोः = नेत्रयोः श्रोः =शोभा इति विवाहधूमारुणलोचनश्रीः की मां = रामम् अक्षिणोत् = अबीडयत् । विवाहकालिकी तव नेत्रयोः धूमेनोत्पन्नां रक्ततां स्मृत्वा भृशं दुःखितोऽभवमिति भावः ।।