________________
त्रयोदशः सर्गः
"
व्याख्या (-अभी - पुरः पृथिव्यां दृश्यमानाः चीराणि बिभ्रतोति चीरभृतः तपस्विनः जनानां स्थानं जनस्थानं = दण्डकारण्यैकभागम् अपोढाः = दूरीभूताः, नष्टाः विघ्नाः = अन्तरायाः तपोविध्वंसका राक्षसा इत्यर्थः यस्मात् तत् अपोढविघ्नं मत्वा = विज्ञाय, उटैः = तृणपर्णादिभिः जायन्ते, इति उटजाः । समारब्धाः = कृतारम्भाः नवा == नूतनाः उटजाः पर्णशालाः येषु तानि - समारब्धनवोटजानि “मुनीनां तु पर्णशालोटजोऽस्त्रियामित्यमरः । चिरं = दीर्घकालं यावत् उज्झितानि = त्यक्तानि इति चिरोज्झितानि । आश्रमस्य = तपोवनस्य मण्डलानि = विभागास्तानि आश्रममण्डलानि, स्वं स्वम् अनतिक्रम्येति यथास्वं यथायथम् = यद्यत् आत्मीयं तत्तदित्यर्थः । अध्यासते = अधितिष्ठन्ति ।
=
-
१४७
समासः - चीराणि बिभ्रतीति चीरभृतः । जनानां स्थानमिति जनस्थानम् । अपोढाः विघ्नाः यस्मात् तत् अपोढविन्नम् । समारब्धाः नवाः उटजा येषु तानि समारब्धनवोटजानि तानि । चिरम् उज्झितानि चिरोज्झितानि तानि । आश्रमस्य मण्डलानि तानि आश्रममण्डलानि । स्वं स्वमनतिक्रम्य यथास्वम् ।
हिन्दी - “हे सीते ! नीचे देखो" ये वल्कलधारी तपस्त्रोजन, दण्डकारण्य के तपोवन को ( राक्षसों के मारे जाने से ) विनरहित जानकर बहुत दिनों से छोड़े हुए अपने आश्रम के उन-उन भागों में निवास कर रहे हैं। जिनमें नई-नई पर्णकुटियाँ बनाई जा रही हैं ॥ २२ ॥
सैषा स्थली यत्र विविता त्व। भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत स्वझरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥
सा पूर्वानुभूता स्थल्येषा । दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां विचिन्वतान्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद्दुःखं तस्मादिव वद्धमौनं निःशब्दम् । उर्व्या भ्रष्टमेकं नूपुरं मञ्जीरः । ‘मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । अदृश्यत दृष्टम् । हेतुप्रेक्षा ।
अन्वयः - सा स्थली एषा, यत्र त्वां विचिन्वता मया त्वच्चरणारविन्द विश्लेषदुःखात् इव बद्धमौनम् ऊर्व्यां भ्रष्टम् एकं नूपुरम् अदृश्यत ।
व्याख्या - सा पूर्वमनुभूता स्थली = स्थलम् एषा पुरः दृश्यते, इत्यर्थः । यत्र = स्थल्यां त्वां = सीतां विचिन्वता = अन्विष्यता = मार्गमाणेनेत्यर्थः । मया = रामेण, अरं = शीघ्रं लिप्सां विन्दतीति अरविन्दम् | अराकाराणि पत्त्राणि विन्दतीति वा अरविन्दम् । तत्र = सीतायाः चरणः = पाद: अरविन्दं = कमलम् इत्र, इति वच्चरणारविन्दम् | त्वच्चरणारविन्देन यो विश्लेषः = वियोगः तेन यत् दुःखं = कष्टं तस्मात् त्वच्चरणारविन्दविश्लेषदुःखात् इव = यथा, मुनेः भावः कर्म वा मौनम् । बद्धं = धृतं मौनम् = अभाषणं येन तत् बद्धमौनम् ऊय = पृथिव्यां भ्रष्टं = पतितम् एकम् = असहायं, नुवनं, नूयते वा नुः, नुवि पुरतीति= नूपुरं = मञ्जीरम् “मञ्जीरो नूपुरोऽस्त्रियामित्यमरः । अदृश्यत = अवलोकितम् । अ दुःखरूप गुणः हेतुत्वेनोत्प्रेक्षितः ।
=
नरे