________________
१४४
रघुवंशे
अन्वयः-हे करभोरु, हे मृगप्रेक्षिणि ! तावत् पश्चात् मार्गे दृष्टिपातं कुरुष्व । एषा सकानना भूमिः विदूरीभवतः समुद्रात् निष्पतति इव । __व्याख्या-करे भातीति करभः = मणिबन्धादारभ्य कनिष्ठापर्यन्तं करस्य बहिर्भागः स इव उरू यस्याः सा करभोरुः तस्याः संबुद्धौ हे करभोरु = हे सुजङ्घ ! मृगवत् प्रेक्षते या सा मृगप्रेक्षिणी तस्याः संयुद्धौ हे मृगप्रेक्षिणि हे कुरंगाक्षि ! तावत् = पूर्व किंचित् पश्चात् = पृष्ठतः मार्गे = अध्वनि लंधितमार्ग इत्यर्थः। दृष्टः- नेत्रस्य पातः = प्रक्षेपस्तं दृष्टिपातं, पृष्ठतो मार्गेऽवलोकनमित्यर्थः। कुरुष्व = कुरु । एषा= पुरोदृश्यमाना कानयति = दीपयति स्मरादि तत् काननम् । कं- जलम् अननं = जीवनमस्येति वा काननम् । काननेन = वनेन सहिता सकानना भूमिः= पृथिवी “अटव्यरण्यं काननं विपिनं गहनं वन" मित्यमरः। विशेषेण दूरं विदूरं न विदूरम् अविदूरम् ; अविदूरं विदूरं भवतीति विदूरीभवन् तस्मात् विदूरीभवतः = दिप्रकृष्टकीभवतः समुद्रात् = सागरात् निष्पतति = निष्क्रामति इव = यथा आभातीत्यर्थः।
समासः-करभः इव ऊरू यस्याः सा, तस्याः संवुद्धौ हे करभोर। दृष्टेः पातस्तं दृष्टिपातम् । काननेन सहिता सकानना ।
हिन्दी-हे सुन्दर जांघोंवाली मृगनयनी सीते ! पहले जरा पीछे छुटे हुये मार्ग में तो देखों। वनसहित यह तट की भूमि ऐसी दीख रही है मानो दूर हटते हुए समुद्र से अभी निकल रही है।
विशेष-करभोरु-मणिबन्ध ( कलाई ) से लेकर कनिष्ठिका अंगुली तक हथेली के बाहरी भाग को करभ कहते हैं। और हाथी के सूड को भी करभ कहते हैं । अर्थात् करभ के समान उतार चढाव वाली या हाथी के सूड के समान जांघोवाली, अर्थात् सुन्दर जांघ वाली ॥ १८॥
क्वचित्पथा संचरते सुराणां,कचिद्धनानां पततां क्वचित ।
यथाविधो मे मनसोऽभिलाषः प्रवर्तते पश्य तथा विमानम् ॥ १९ ॥ हे देवि, विमानं पुष्पक मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्तते पश्य । क्वचित्सुराणां पथा संचरते । क्वचिद्घनानां क्वचित्पततां पक्षिणां च पथा संचरते । 'समस्तृतीयायुक्तात्र पूर्वाच्चरतेरात्मनेपदम् ।।
अन्वयः-हे सीते ! विमानं मे मनस अभिलाषः यथाविधः तथा प्रवर्तते, त्वं पश्य । क्वचित् सुराणां पथा संचरते, क्वचित् धनानां, क्वचित् पततां च यथा संचरते ।
व्याख्या-हे सीते! विशिष्टं मानयन्त्यनेन, इति विमानं = पुष्पकं मे = मम रामचन्द्रस्य मन्यतेऽनेन तन्मनस्तस्य मनसः =चित्तस्य अभिलाषः= इच्छा यथा=यादृशः विधा = प्रकारो यस्य स यथाविधः तथा = तेन प्रकारेण प्रवर्तते = प्रचलित इति त्वं = सीता पश्य - अवलोकय । तथाहि प्रकारं दर्शयति क्वचित् = कुत्रचित् सुराणां = देवानां पथा = मार्गेण संचरते=गच्छति,