________________
त्रयोदशः सर्गः
१३९ व्याख्या-सहसा अतर्कितं =झटितीत्यर्थः उत्पतन्तः = उद्गच्छन्तस्तैः सहसोत्पतद्भिः "अतकितेतु सहसा" इत्यमरः । मातंगाः =मातंगाकाराः नकाः = कुम्भीरास्तैः मातंगनः । न क्रामति दूरस्थमिति नक्रः, ग्राह इत्यर्थः 'नक्रो यादसि' इति हैमः। 'नक्रस्तु कुम्भीरः' इत्यमरश्च । द्विधा भिन्नान् = खण्डशः कृतान् चन्द्रोदयात् आपः सम्यक् उन्दन्ति = क्लियन्ति यत्र स समुद्रः, मुद्रया = मर्यादया सह वर्तमानः, इति वा समुद्रः। समुद्रस्य फेनाः= डिण्डीरास्तान् समुद्रफेनान् “डिण्डीरोऽब्धिकफ: फेनः" इत्यमरः। हे सीते त्वं पश्य = अवलोकय ये = फेनाः एषां = गजाकारनक्राणां कं=सुखंपोलन्तीति कपोलास्तेषु कपोलेपु = गण्डस्थलेषु संसर्पितुं = प्रसतुं शीलं येषां ते कपोलसंसर्पिणः, तेषां भावस्तत्ता तया कपोलसंसर्पितया = गण्डस्थलेषु संसर्पणेन कारणेनेत्यर्थः । चामरस्य भावः चामरत्वम् । कर्णेषु = श्रोत्रेपु क्षणं = मुहूर्त “यावत्" चामरत्वं = बालव्यजनत्वं व्रजन्ति = गच्छन्ति, प्राप्नुवन्तीत्यर्थः । 'चामरा चामरं बालव्यजनं रोमगुच्छकमि'ति रभसः।
समासः-सहसा उत्पतन्तस्तैः सहसोत्पतद्भिः । मातंगानाम् आकार इव आकारः येषान्ते मातंगाकाराः, मातंगाकाराश्च ते नक्राः इति मातंगनक्रास्तैः मातंगनः, शाकपार्थिवादित्वात् आकारपदस्य लोपः । समुद्रस्य फेनास्तान् समुद्रफेनान् । कपोलेषु संसषिणः कपोलसंसर्पिणः, तेषां भावस्तत्ता तया कपोलसंसर्पितया । कर्णेषु क्षणं चामराः कर्णक्षणचामरास्तेषां भावस्तत्त्वं कर्णक्षणचामरत्वम् , तत् ।
हिन्दी--हे सीते ! जल के हाथी के आकार वाले इन मगर मच्छों के अचानक उछलने ( जल के भीतर से उठने ) से फट गए (टुकड़े टुकड़े हो गए ) समुद्र के झागों को तो देखो। जो कि इन मगरमच्छों के गालों पर लग जाने के कारण इनके कानों पर क्षणभर के लिये चामर से लग रहे हैं ॥ ११ ॥
वेलानिलाय प्रसृता भुजङ्गा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिमिः फणस्थैः ॥ १२ ॥ वेलानिलाय । वेलानिलं पातुमित्यर्थः। ‘क्रियार्थोपपद--' इत्यादिना चतुर्थी । प्रसृता निर्गता महोमीणां विस्फूर्जथुरुद्रेकः । 'ट्वितोऽथुच्' इत्यथुच्प्रत्ययः। तस्मान्निविशेषा दुर्घहभेदा एते भुजंगाः सूर्यांशुसंपर्केण समृद्धरागैः प्रवृद्धकान्तिभिः फणस्थैर्मणिभिर्व्यज्यन्त उन्नीयन्ते ॥ ___ अन्वयः–वेलानिलाय प्रसृताः महोमिविस्फुर्जथुनिर्विशेषाः एते भुजंगाः सूर्यांशुसम्पर्कसमृद्धरागैः फणस्थैः मणिभिः व्यज्यन्ते।
व्याख्या–वेलायाः = सागरतटस्य अनिलः = वायुस्तस्मै वेलानिलाय = सागरतटस्य पवनं पातुमित्यर्थः प्रसृताः = निर्गताः जलात् बहिरागता इत्यर्थः। ऋच्छन्ति = गच्छन्तीति ऊर्मयः । महान्तः=दीर्घाश्च ते ऊर्मयः =तरंगाः, इति महोर्मयः, महोर्माणां =महातरंगाणां विस्फूर्जथुः= उद्रेकः,इति महोर्मिविस्फूर्जथुः,तस्मात् निर्गतः विशेषः = भेदः येषां ते महोर्मिविरफूर्जथुनिर्विशेषाः, महातरंगेभ्योऽशक्यभेदग्रहा इत्यर्थः "भंगस्तरंग ऊर्मिवा स्त्रिया वीचिः” इत्यमरः। एते = पुरोवर्तिनः भुजेन - कौटिल्येन गच्छन्तीति भुजंगाः= महासाः सूर्यस्य =भास्करस्य अंशवः =