________________
गरुडलक्षणम्
विहङ्गराजमान च लक्षणं वच्यते ऽधुना ।
मूलबेरसेमा (ममु) तुङ्गं [तत्] त्रिपादमर्धमेव वा ॥ १ ॥ उत्सवाचं समं वापि द्विगुणं त्रिगुणमेव वा । त्रिगुणाधिकं वापि तचतुर्गुणमेव वा ॥ २ ॥ एवं नवोदयं प्रोक्तमुत्तमादि त्र्यं त्रयम् । तत्तत्त्रिंशतिकं कृत्वा ए (चै)कैकांश विवर्धनात् ॥ ३ ॥ पञ्चविंशच्छतान्तं स्याद्यच्छुभायादिसंभवम् । अथबाङ्गुलमानेन कल्पयेद् गरुडेोदयम् ॥ ४ ॥ एकाङ्गुलं समारभ्य द्विद्व्यङ्गुलविवर्धनात् । त्रयोविंशच्छतान्तं स्यान्मानायादिं कारयेत् ॥ ५ ॥ द्विजराजायं वापि मानयेद् गरुडोदयम् । पीठवारसमा (मम)ध्यर्ध पादानं द्विगुणं तु वा ॥ ६ ॥ द्विगुणात्पादमाधिक्यं द्विगुणार्धाधिकं तु वा ।
पादोनत्रिगुणं वापि त्रिगुणं पादमधिकम् ॥ ७ ॥ एवं नवविधं मानं कन्यसादीनि काग्येत् । तदायामसमं वापि त्रिपादं चार्धमेव वा ॥ ८ ॥ उत्तमादि त्रयं प्रोकं गरुडस्योदयं विदुः । न कुर्यात्वट्शुभायादि कुर्यात्तदंशमानतः ॥ ६ ॥ स्थानक चासनं चैव गमनं च यथाविधि । उष्वोषात्पादपर्यन्तं गृहितात्तुङ्गं मानतः ॥ १० ॥ वतन्मानवशात्केचिन्मूल बेरवशान्न्यसेत् । उत्सवे चात्समं प्रोक्तमङ्गुलं मानविश्वतः ॥ ११ ॥
47
4
8
121
16
20