________________
३४६
मानसारे
शक्तीनां पीठकानां च बोशिला संग्रहं (हो) भवेत् । प्रासादादीनि (ना) सर्वेषां नपुंसकशिला भवेत् ॥ ६७ ॥ श्वेतर कं च पीतं च शिला कृष्णं यथाक्रमात् ।
द्विजातीनां च वर्णानां कुर्यालिङ्गादिना (दीन) बुधः ॥ ६८ ॥ सर्वेषामपि वर्णानां सा शिला कृष्णमेव वा । सर्वेषां वर्णपाषाणे कृष्णरेखां विसर्जयेत् ॥ ६६ ॥ श्वेतं च स्वर्णरेखं च सर्वसंपत्करं शुभम् ।
शिला संग्रहणं प्रोक्तं शेषमर्हमागमोक्तत्रत् स्मृतम् ॥ १०० ॥ स्वयम्भुलिङ्गसर्वेषां लचणं वक्ष्यतेऽधुना । उद्भूतं दैवकं चैव मानुषं गाणवं तथा ।। १०१ ।।
एवं चतुर्विधं लिङ्गं स्वयम्भुरिति कीर्तितम् । तत्स्थाप्य (प्यं) स्वयमुद्भूतं स्वयम्भुरिति कीर्तितः ॥ १०२ ॥ देवैश्व स्थापितं लिङ्गं दैविकं लिङ्गमुच्यते । मानुषैः रचितं लिङ्गं मानुषं चेति कथ्यते ॥ १०३ ॥ अन्यंषु (न्यैः)रचितं लिङ्गं चार्षचैव कथ्यते । गणैश्च पूजितं लिङ्गं गणं चेति प्रकथ्यते ॥ १०४ ॥ उद्भूतं श्वेतवर्ण चे(कुर्या) द् दैविकं रक्तवर्णकम् मानुषं पीतवर्णाभं कृष्णवर्णं च गायक (व) म् ।। १०५ । भार्ष युक्तसूत्रं स्यात्स्वस्तिक्राकृतिरे (मे)त्र वा । उद्भूतं शङ्कराकारं रुद्राक्षरं [च] दैविकम् ॥ १०६ ॥ नगर्दभं (गोपमं) गायवं स्याल्लिङ्गाकार मिहोच्यते । उद्भूतस्ता (तं स्थूलमूलं स्यात्कृशायं वा समाधिकम् ।। १०७ ।। अन्यथा सर्वलिङ्गानां स्थूला कृशमूलकम् ।
दैविकं डिण्डिमाकारं मानुषार्द्रपुषा (षं स्रुक्वा ) कृतिः (तिम्) | १०८ ॥ उद्भूतं पर्वताकारं कूश्मा (कुष्माण्डाकार(रं) गायवम् । पुण्यनद्यद्रिदेशे तु लिङ्गसंग्रहणं भवेत् ॥ १०६ ॥ एवं परार्थ लिङ्ग स्याच्छेषमागमता (मो) क्तवत् [ स्यात् ] । मात्मार्थ लिङ्गपीठस्य लचणं पठ्यतेऽधुना ॥ ११० ॥
[ श्रध्यायः
220
224
228
232
236
240
244