________________
नववलविधानम् पञ्चविंशतिभागेन मध्यभद्रं शरांशकम् । तत्पावें कर्णकूटौ च नराणं चैकभागिकम् ॥ १२ ॥ अनुशाला त्रिभागैकं मध्यभद्रं तु संयुतम् । सुप्रतीकान्तनामाख्यं(म च) शेषं प्रागुक्तवन्नयेत् ॥ १३ ॥ षड्विंशतिविभागेन मध्यमं तु युगांशकम् । मध्यम(म)हर्म्यके कुर्यात्सर्वालङ्कारसंयुतम् ॥१४॥ श्रेष्ठं नवतलं हर्ये सप्तविंशतिभागिकम् । शालापावें द्विभागैकं हारकूटसपचरम् ।। १५॥ कूटशालैश्च सप्तांशं मध्यभद्रं शरांशकम् । भद्रकोष्ठं त्रियं(त्रयां)शं स्याच्छेषं पूर्ववदाचरेत् ॥ १६ ॥ श्रेष्ठं नवतलं प्रोक्तं विश्वकान्तमुदीरितम् । सदू विं(ग्रं)शमानेन वक्ष्यं चोर्वे जलस्थलम् ॥ १७ ॥ जन्मादिस्तूपिपर्यन्तं गण्यमानमिहोच्यते । हर्म्यमष्टतले तुङ्गे साष्टभागाधिकं तथा ।। १८॥ सार्धमंशमधिष्ठानं तद्द्वयं पादतुङ्गकम् । । तदर्ध प्रस्तरोत्सेधं शेषमष्टतलोक्तवत् ॥ १६ ॥ एवं नवतलोत्सेधं सर्वाखङ्कारसंयुतम् । नानाधिष्ठानसंयुक्तं नानापादैग्लङ्कतम् ॥२०॥ कहादिसंयुक्तं द्वारं तत्प्रस्तरान्वितम् । भद्रकूटादिशालाना(भिर्) नासिकापजरान्वितम् ॥२१॥ युक्त्वा हारादि यथा सर्वे(वा) चानुकूलानुनासिका । तोरणायगनीडैश्च जालकादिविभूषितम् ॥ २२ ॥ शेषं तु पूर्ववत्कुर्यादितु देवान्न्यसेत्क्रमात् । बल्ले वस्खे विमाने त चोक्तवत्कारयेदुधः ॥२३॥ एवं नववलं प्रोकं शेषं युक्त्या प्रयोजयेत् ॥२४॥
इति मानसारे वास्तुशास्त्रे नवतलविधान नाम सप्तविंशोपण्यायः ॥