________________
89
No. 14] . MANDKILA TAL INSCRIPTION, V. 8. 1043 21 तेन सुदशेन शुभाश्रयेण प्रोत्सारितान्धतमसेन सुनिर्मलेन । दीप्तेन येन शुशुभे सुतरां
स्वगोत्रं दीपेन हर्म्यमिव वल्गुतरं स्थिरेण ॥[१९॥*] • 22 नाटयेति जाया तस्यासीत्सौभाग्यौकः पतिव्रता । च्छा (छा)येवानपगा पत्युः सुरूपा
प्रियभाषिणी [॥२०॥*] पुत्रैः पक्षं पितॄणां स्वजनमृजुतया से23 वया पूज्यवर्ग लुब्धा (ब्धा)न्दानेन विप्रान्परमशुचितया क्रोधनान् क्षांतिहेत्या । प्रेष्या
मानेन पोरान्सुनिभृतविधिना सत्यवाक्येन चालीर्निवक्त24 व्यं सुखैर्या दयितमपि सदा दोषपक्षे चकार ॥२१॥*] तस्यां सुतो नंदन उत्तमौजाः
सुनंदनोजन्यवनिप्रसिद्धः । तेजस्विनेनेन यथा कृसा(शा)नुस्तेनार्कपाषाणमहा25 शिलायाम् ॥२२॥*] मतिर्द्धम ‘यस्याविरतमनुरक्ता धनवतो हिता सत्या वाणी
सकलजनताप्रीतिजननी । शरीरं शिष्टानामुपकरणवस्तुष्वभिगतं मनो नित्यं वांच्छा (छा) मकृत सुरलोकाधिगम
26 ने ॥२३॥* न मामसावभिलषति स्वचेतसा मनागपि ध्रुवमिति यस्य मन्युमत् ।
. स्वयं यशः प्रकटनमेवमात्मनः सुराश्रयैः कुरु सलिलाशयैरपि ॥२४॥*] प्रचंडपवनाहतिव्यथितसिंधु
27 वत्संपदस्तथैव मृगतृष्णिकास्थितिसदृक्षमायुर्नृणाम् । शरज्जलदनश्वरं सुखमवेत्य
योनाविलं विहाय सकलाः कलाः सुकृतमेव धीरोकरोत् ॥[२५॥*] सोचीकर'न्मठमिमं
नोराहरिस्वा28 सिजगति संश्लिष्टम् । हरिशंकरनारायणखचरयुतं कोष्ठकूपपुरः ॥२६॥* पात्व
लंकृतसर्वांगं नवद्वारविभावितम् । स्वशरीरमिव स्थास्तु सज्जनानंदकारणं(णम्)
॥२७॥*] गुणयुगहरिदंके साहसां29 कस्य काले मधुकरपिकहृद्ये माधवे मास एते । शशधूदुदयपक्षे सूर्यवारे युगादौ
भवभवभयचौराः स्थानमध्यासतेदम् ॥२८॥*] संवत् १०४३ वैशाख सु ३ - प्रतिष्ठिताः [॥"] 30 वृत्ति चासौ स्थापितानां विधाय भागीरथ्यां सौकरे तीर्थवर्ये । श्वेतद्वीपं मानसेनाव
धार्य प्राणानौज्झत्त्यक्तसंसारव (ब)न्धः ॥२९॥*] व(ब) भूवे भार्यया तस्य रा(रो)- हिण्या गोत्रभूषया । प्रालेयाद्रि
,
This ra was first omitted and later supplied ag is apparent from its position * This rd was likewise first omitted and supplied later on.