________________
60
THE INDIAN ANTIQUARY.
[FEBRUARY, 1911.
वैशंपायनः || ततो गोपगणस्सर्वो मिथिलामन्यवर्तत। वृषान्सप्त समाहत्य नीलां गृह्णाम् यक्षतः ॥ इति गोपान्समा - जग्मुः प्रत्येकं तान्जिघृक्षवः || मिथिला राजधानी सा न कचिद्वल्लवविना ॥ गोपालमयमेवैतत् राष्ट्रं मिथिलवर्मणः | गोपास्वायतभुजाः विस्तीर्ण बलसंयुताः || आस्फाटितभुजा मत्ताः प्रत्येकं वृषमन्वयुः । कुंभकस्य तदा दूतैराहूतो गोपनंहनः || गोपालैरपरैस्सार्धे नंदगोपस्समाययाँ । रामकृष्णौ च संयातौ कुंभकस्य व्रजं किल || दारकैरपरैस्सार्द्ध सवयांभिर्मुवान्वितैः । मयूरांगदचित्रांगो नीलकुचितमूर्धजी || पीते वसानो वसने हरि चंदनचचिती । वनमालाकृतोरस्को दामयज्ञोपवीतिन || शिक्यालंबत्कटिकरी वर्णवाद्याविनोदिनी । किंकिणीजालसंहादी शिखिपिच्छैरलंकृतौ ॥ वेणुवीणावकृती शृंगध्वनिसमाकुलौ | दिविस्थैर्देवगंधर्वैरनुयातौ महानुती || गोपाला नौभिरुत्तीर्य यमुनामूर्मिम. लिनीं । गंगां चैवाभिसंयाता मिथिलां कृष्णसंयुताः ॥ कुंभकश्च महाबुद्धिर्मैथिलेयो मुदान्वितः । नंदगोपं तदा दृष्ट्वा सपुत्त्रं च समागतं । । उत्थायामे समागम्य समालिंग्य मुशन्वितः । प्रतिसंभावयामास यशोदा चैव धर्मदा || बलभद्रस्य कृष्णस्य श्रीदामा चासनं ददौ । कृसरं पायसं चैव तथा दध्योदनं बहु || निवेद्य नंदगोपाय सपुत्राय मुशन्वितः । आपूपारसक्तबोदानाः शर्कराक्षीरमिश्रिताः ॥ दत्ताः कृष्णाय रामाय नंदायाथ सज्ञातये | एवं प्रीतास्सुमनसो नंग्गोपपुरस्सराः ॥ ऊषुस्मुखं तदा रात्रौ गोपालास्सर्व एव ते । भय तस्यां वृषा रात्री गोषु वैशसनं मुहुः । प्रत्येकं सप्त ते मल्ला दानवा वृषरूपिणः । वत्सान् जघ्नुरथोगाश्च कुटीर्भूयो बभेजिरे । आगंतुकान् तश गोपान् रात्रौ युद्धाय निस्सृतान् । जन्नुः शंगैः खुरैश्चैव शिष्टा गोपा दिशो ययुः ॥ भारवं प्रकुर्वतो दिग्गजा इव तस्थिरे । रज्जूंछित्वा घटान्भित्वा कीलकानथ शिक्यकान् ॥ वत्सान्विद्रावयामासुर्गाश्वराजन्दशोदिश । ततः प्रभाते विमले व्युडा सा रजनी किल || वृषास्तस्थुर्महानादास्तस्मिन्कुंभ कवरेमनि । दिग्गजा इव संहा कुंभारवपुरहारं || चक्रिरे पर्वताकाराः कालांतकयमोपमाः ।
इति श्रीहरिवंशे चतुष्षष्टितमोध्यायः
वैशंपायनः ॥ अथ तस्यामवस्थायां निश्चेष्टः कुंभकः किल || वृषान् तथाविधान् दृष्ट्वा व्रजनिश्शेषकारिणः । गोपान् सर्वान् समाहूय वचनं चेदमब्रवीत् ॥ श्रूयतां मम वाक्यानि गोपा नंदपुरोगमाः । वृषास्सप्त समुद्भूता व्रजेस्मिन् महदुर्मदाः॥ सिंहा इवामहाक्रांता]: दिग्गजा इव वंशिताः । अप्रतक्र्य ह्यनासाधा गोपगोपीव्यतिक्रमाः । यत्नाश्च बहवोस्माभिः कृता रोडुमिमान् मुहुः । एषा मे कंबला योद्धुं न शक्या स्नेहसंगता || भीतास्तेभ्यो मुद्दगोपा विसंज्ञा पर्यटामहे। किंच राज्ञो मुण्डया वयं मिथिलवर्मणः || गतिमेषां नजानीमो न गतिं न च चिंतना ।। नच ते केवलवृषाः राक्षसा वा वृषात्मना ॥ देव्या वा वानवा वाथ यक्षगंधर्व एव वा । अस्मदुत्सादनार्थाय व्रजेस्मिन् समुपस्थिताः ॥ युष्माकमागतानां तु यो वृषान्दमयिष्यतेि । तस्येयं सर्वकल्याणी नीला देया मनस्विनी || नीला सुमध्यमा तस्मै दत्ता कमललोचना । इत्युक्त्वाहूय तां कन्यां गोपनध्ये करोति तां || यूनां मनांसि चाक्षीने तस्यामेव प्रपेदिरे । स्तनयांस्थितिमाजग्मुः तेषां वित्तप्रवृत्तयः ॥ अन्येषामधरे चैव परेषां च सुमध्यमे । एवं व्यालोलमनसो गोपाश्चिवस्थिता इव । तत्र नंदसुतः कश्चित् ज्येष्ठः कृष्णस्य संमतः । स तथा घोषयन् वाचा दमायेष्ये वृषानमून् || इति प्रतस्थे तान् हन्तुं स्तेयान् वृषरूपिणः । भुजावास्कोटय रु-द्वापि पित्रा - वता तदा || इयेष योद्धुं मंदात्मा यात्र शक्क्रांति माधवः । रावणस्य रजे हन्ता यश्च हन्ता सुमालिनः । तेषां मध्ये समास्थाय हुंभारवमथाकरोत् । तेन शब्देन ते सप्त वृषा घोषवतः पुरः || खुरांइगान् समुद्धृत्य समुत्तस्थुस्समुद्यताः । तेषां स्थिता नामेकस्य घोषवान् मस्तके ऽहनन् || ततो गोपास्समागम्य सिंहनादं त्र्यनीनदन् । आहते मस्न के सोयं वृषो घोषवतस्तदा || असे खुराभ्यामः हृत्य घोषवंतं दश ह । पुनशृंगंग तं हत्वा खुराभ्यां दूरतक्षिपत् || त्र्यननिदच्च सहसा गोपान् विद्रावयंस्ता | युवानस्त्वथ ये गोपाः नीलामहणलालसाः || मुष्टिं संवर्त्य संवर्त्य भुजास्फोटनतत्पराः । गोपा लीलां प्रकुर्वतः तेपामपदं ददुः ।। स्थितेषु गोपवीरेषु ते वृषा गोपघातकाः । तस्मात्तान् शंगकोणैस्ते निजघ्नुः स्म ततस्तत: || मस्त कैश्च खुरैश्चैव न्यहनन्मुदिता भृशं । ते गोपा वृषदैत्यैश्च निहता भुवि पातिताः || गतानभिमुखं हत्वा संस्थितास्सुमहावृपाः । हुंभारवनिनादेन भीषयंतश्च गोगणान् || गोपालान् गोष मुख्यांश्व बलाद्विद्राव्य दंशितान् । वल्मीकान् खानयंतो वै महोत्पातं प्रच किरे ।। कुंभको नंदगोपश्च ये वृद्धा गोषु जीविनः । कृत्यमूढास्सुसंवृत्तास्तदागोपपुरस्तराः || राज्ञा भीता बभूवुश्च दंड्या वयमिति स्थिताः ।
इति श्रीहरिवंशे पंचषष्टितमोध्यायः
वैशंपायनः ॥ श्रथ कृष्णस्तदारामं बभाषे वैशसे सति || नेते वृषः महाबाहो दैत्यास्सप्त समुत्थिताः । कालनेमिसुताः पूर्व नाहन्तुमिहसंगताः। पुरा मया हता युद्धे तदा तारामये विभो। एते ते बलिनो नित्यं मम विद्वेषकारिणः। निहन्तव्या मया आर्यगोगोहन्तकरा इमे || एते गोपा हता भूयो भूयो हन्तुं समुद्यताः । एवमेतैर्यथायोगं क्रीडाकर्मसु गोपका | नंदकुंभकोभी विषण्णी समपद्यतां ॥ रक्षितत्र्य बलादेती गोपी बंधू मया विभो । नीलामेनां महिष्यामि हत्वा सप्त वृषानमूनश्रीदामानं सखित्वेन संगृहिष्याम्यसंशयः || इति निश्चित्य रामेण कृष्णः कमललोचनः || पुरस्तेषां पदं चक्रे वृषाणां बलशालिनां । ते वृषा दितिजाः क्रुद्धा विष्णुं वृद्वा पुरस्थितं || पूर्ववैरमनुस्मृत्य त्वरार्द्धतुं प्रचक्रमुः । ते समं सहसा पेतुः कृष्णस्योपरि दानवाः ॥ ततो युद्धं समभवत् तेषां कृष्णस्य च प्रभो । ततो गोपगणास्सर्वे कृष्णमेवाश्रिताभवन् ॥ गेस्ले सहसा कृष्णः पादप्रहारेपरेः पुष्याने केस | पुरूपकसमा प्रत्येक geeraar | दतैर्दवंशुरपरे खुरैरन्ये जनार्दनं ॥ ततः कृष्णो रुषा मुष्टिं सन्निहत्य जघानह । क्रमेण मुष्टमा तान्सर्वान् हत्वा देतेयगोपतीन् । नीलां हस्ते गृहीत्वाथ कृष्णस्तस्मिन् व्यरोचत। कुंभको नंदगोपं तं प्रोवाच जनसन्निधौप्रसाशन्तव पुत्रस्य जीवामी विगतज्वराः । सपुत्रासह गोपा वे सवत्सा नो धनैस्समं || वैषश्च सप्तभिर्नद हता गावस्सहस्रशः