________________
AUGUST, 1880.]
INSCRIPTIONS FROM NEPÅL.
185
यस्याचारविचारपौरुषरवव्यग्रास्समग्रा गिरस्तस्य क्षोणिपतेः प्रसिद्धमहसः केनोपमेयं यशः ॥४॥
अस्यात्मजोजनि महीतलकल्पवृक्षो राजा विराजितयशाः शिवसिंहदेवः । . भूमीभुजा समरसीम्नि महाभुजेन क्षेमं क्षणेन रिपवो बहवो विनष्टाः ॥ ५ ॥ येन क्षोणिभुजा प्रयाणसमये पादातसैन्योच्छलझूलीजालसमुत्थितेन तमसा व्योमान्धकारीकृतम् । कूर्मो मर्मणि चूर्णितोपि नितरां धत्ते कथंचिद्वरां शेषःशेषदशाजगाम सहसा सर्वसहा निःसहा ॥६॥ तनयोस्प विनयपूर्णो बभूव कर्णोपमो भूमौ । हरिहरसिंहनरेन्द्रो वसुधाचन्द्रो बभूवा सौ ॥ ७ ॥
अरीणानिहन्ता यशःपारगन्ता सुशीलः समन्ताज्जयन्ताधिकश्रीः।
स्वतातानुरूपोतितेजःसुरूपो बभूवावनीमण्डले चण्डरोचिः॥८॥ इन्द्राणीव सुरेश्वरस्य दयिता पनेव पनापतेः वैदेहीव रघूत्तमस्य गृहिणी गौरीव गौरीपतेः । तस्य क्षोणिपतेर्बभूव महिषी भव्या भवानीसमा राज्ञी लालमती सती गुणवती प्रायो रतिभरती ॥९॥
पौरन्दरी दिगिव नूतनभानुबिम्बं सौन्दर्यकाननगजाननमम्बिकेव ।
पुत्रं पवित्रमथ सिद्धिनृसिंहमलं सा राजपुत्रतनया जनयाम्बभूव ॥ १० ॥ येनाकारि विपक्षपक्ष्मलदशां दृग्वारिभिर्वारिधिर्येनाधारि जगत्त्रयोपरि शरच्चंद्रावदातं यशः। बाल्योपक्रम एव विक्रमवतस्तस्याधुना पौरुषे श्रीमसिद्धिनृसिंहमलनृपतेयुद्धे समर्थो हि कः ॥ ११ ॥ यद्भूमीपालगङ्गाजलविमलयशःपूरकर्पूरपूरैः ब्रह्माण्डे पाण्डुरेऽस्मिन्समजनि रजनीनायको निष्कलकः । तकि भूसेवकोभून्मुखकमलमिषादेष यस्यामृतांशुः सोयं दीर्घायुरास्तामधिधरणिमणिः सिद्धिपूओं
नृसिंहः ॥१२॥ दानाल्पीकृतकल्पवृक्षगरिमा सीमा च तेजस्विनां श्रीमानदुतकीर्तियुक्तमहिमा भीमानुजः साहसे । दोर्दण्डद्वयचण्डिमान्तगलितप्रत्यार्थपृथ्वीपतिः श्रीमत्सिद्धिनृसिंहमलनृपतिर्ववर्ति सर्वोपरि ॥ १३ ॥ प्रातिष्ठयं च युधिष्ठिराधिकतरं निष्ठा वसिष्ठाधिका कीर्तिः कार्तिककृत्तिकापतिमतिस्तस्याधिका वर्त्तते । वाणी व्याससमा रमा स्थिरतमा रामाभिरामाकृतिःश्रीमत्सिद्धिनृसिंहमलनृपतेः किन्नाम यनाडुतम् ॥१४॥
कदाचिदेतेन महोत्रतेन मठः कृतः कोपि धनैरनेकैः।
श्रीबालगोपालविरामभूमिर्विकुर्वतामर्यधरा जगत्याम् ॥१५॥ यो मेरुमन्दरमहेन्द्रहिमाद्रिविन्ध्यकैलासशैलशिखरभ्रममातनोति ।
किच्चास्य हेमकलशानवलोक्य देवैः सन्दिह्यते कनकधामनि पर्वतेन्द्रे ॥१६॥ हर्षानेपालवर्षे स्वरशरतुरगैरतिते फाल्गुनीये पक्षे प्राप्ते वलक्षेमरगुरुदिवसे शङ्करवॆ दशम्याम् ।
चक्रे जाम्बूनदीयैर्गुरुतरकलशै स्वरैरेकविंशः नेपालशोणिपालः प्रथितभुजबलो भूषणं तन्मठस्य ॥१७॥ युद्धारम्भः कृतोस्मिन्नपि शुभदिवसे शत्रुभिर्युदशौण्डैर्दुष्टैःकोटोवरुद्धः कुटिलनृपभटैरदुतैः कोटिसंख्यैः। लीलामात्रेण शत्रूनपनयत तदा पार्थिवः पार्थतुल्यः कोटं निर्मोचयिला नमुचिरिपुरिवानन्दसन्दोहमाप ॥१८॥ राजसूय इवारब्धो मध्यस्थेन महीभुना । विशिष्य शेषनागोपि न शक्तो यस्य वर्णने ॥१९॥ आचार्यो यत्र मर्यादाधादार्यदयानिधिः । विश्वनाथ उपाध्यायो विश्वनाथ इवाभवत् ॥ २० ॥
यो मेरुभूधर इवातिगुरुर्गरिम्णा योसा महार्णव इवातिमहान्माहिम्ना । यो व्यासवद्विविधवैदिकमन्त्रपाठे यो निष्ठया भुवि वसिष्ठमहर्षिकल्पः ॥ २१ ॥
यात्रायाता मञ्जयंतः कियन्तो विद्यावन्तो जजपूकायिवन्तः । नानादिग्भ्यः पण्डितैरभ्युपेतं सत्रे तस्मिन्मंडपं मण्डितं यैः ।। २२ ।। द्वास्थातारौ कल्पिती तत्र सत्रे द्वौ द्वौ द्वारि द्वारि देवर्षितुल्यौ।
भूषाभूतो विद्विषां दर्पहन्ता नेता तेषां विश्वनाथो मनीषी ॥ २३ ॥ आरब्धे शिबिना नृपेण विधिना सत्रे पुरा गौरवादः खाण्डवखण्डनं समतनोहाण्डीवकोदण्डवान्।