________________
जइ-जीयकप्पो समीपस्थितसाधूनां छेदं छेदं शिरांस्यधीः । एकान्ते न्यक्षिपत्तानि शिर्षाणि च वपूंषि च ।। १४ । । शेषा अपसृता भूयः सुप्तः स्वप्नं प्रगेऽवदत् । मृतान् वीक्ष्याथ साधून् स लिङ्गपाराञ्चिकः कृतः ।। १५ ।। वटस्याधोऽध्वना कश्चिद् भिक्षाचर्यां गतो मुनिः । भृतपात्रो वलन् वेगात् क्षुत्तृग्रीष्मार्कतापितः ।।१६।। तच्छाखायामास्फलितो रुष्टस्तस्यामसौ निशि । स्त्यानदर्बुदयतो गत्वा भक्त्वा शाखां समागतः ।।१७।। विन्यस्योपाश्रयद्वारे सुप्तः स्वप्नं न्यवेदयत् । प्रातः स्त्यानर्द्धिमान् ज्ञात्वा लिङ्गपाराञ्चिकः कृतः ।। १८ ।। केप्याहुः प्राग् वनेभोऽभूत् सोऽथ स्त्यानर्द्धिमान्नरः । सञ्जातप्राग्भवाभ्यासाद्वटशाखां ततोऽभनक् ।। १९ ।। उक्तो मूढपाराञ्चिकः । अन्योन्यकुर्वाणः पाराञ्चिकस्तु अन्नोन्नासेवणापसत्तो अ' अन्योन्यं' पुरुषः पुरुषान्तरेण सह परस्परं मुखपायुप्रयोगतो मैथुनासेवायां प्रसक्तः । तथा चरमस्थानं पाराञ्चिकं तदापत्तिहेतवोऽतिचारास्तेषु बहुशः पौनःपुन्येन यश्च प्रसजति प्रसक्तो भवति स पाराञ्चिकः क्रियत इत्यर्थः ।। २९२ ।। एतदेवाह
सो कीरs पारंचिअ लिंगाओ खित्तकालओ तवओ । संपागडपडिसेवी लिंगाओ थीणगिद्धि अ ।। २९३ ।। व्याख्या - पाराञ्चिकश्चतुर्धा - लिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्च । तत्र लिङ्गपाराञ्चिके द्रव्यभावलिङ्गाभ्यां चतुर्भङ्गी । द्रव्यलिङ्गेन पाराञ्चिको भावलिङ्गेन च १, द्रव्यलिङ्गेन पाराञ्चिको, न भावलिङ्गेन २, भावलिङ्गेन पाराञ्चिको, न द्रव्यलिङ्गेन ३, उभाभ्यामपि न पाराञ्चिक इति चतुर्थः शुद्धः । तत्र सम्प्रकटप्रतिसेवी राजाग्रमहिष्यादिसेवकः स्त्यानर्द्धिमांश्च चशब्दादन्योन्यासेवनाप्रसक्तो राजवधकश्च । लिङ्गतः पाराञ्चिकोद्रव्यभावलिङ्गाभ्यां पाराञ्चिकः क्रियत इत्यर्थः ।। २९३ ।। क्षेत्रपाराञ्चिकं गाथाद्वयेनाह— वसहि-निवेसण - पाडग - साहि - निओगपुर - देस - रज्जाओ । खित्ताओ पारंची कुलगणसंघालयाओ
वा ।। २९४ ।।
५. वटशाला भञ्जनदृष्टान्तमाह
एकः साधुः उद्भ्रामक : ' भिक्षाचर्यां गतः । तत्र ग्रामद्वयस्यापान्तराले वटवृक्षो महान् विद्यते । स च साधुर्गाढतरमुष्णाभिहतो भरितभाजनस्तृषित - बुभुक्षित ईर्योपयुक्तो वेगेनाऽऽगच्छन् वडसालेण' त्ति लिङ्गव्यत्ययाद् वटपादपस्य शालया शिरसि घट्टितः सुष्ठुतरं परितापितः । ततो वटस्योपरि प्रद्वेषमुपगतः तदध्यवसायपरिणतश्च प्रसुप्तः । उदीर्णस्त्यानार्द्धिश्चोत्थाय तत्र गत्वा वटपादपं भङ्क्त्वा उन्मूल्य तदीयां शालामानीयोपाश्रयोपरि स्थापितवान् । उत्सर्गे च' आवश्यककायोत्सर्गत्रिके कृते गोसे च' प्रभाते तथैव गुरूणामालोचयति । ततो दिगवलोके कृते तथैव ज्ञातम्, लिङ्गपाराञ्चिकः कृतश्च । केचिदाचार्या ब्रुवते - स पूर्वभवे वनहस्ती बभूव ततो भनुजभवमागतस्य प्रव्रजितस्योदीर्णस्त्यानर्द्धेः पूर्वभवाभ्यासाद् वटशालाभञ्जनमभवत् । शेषं प्राग्वत् । ।
A. मूर्खः ।