________________
जइ - जीयकप्पो गुरुणाऽचिन्ति मामेष मा वधदसमाधिना । स्वगणेऽन्यमथाचार्यं कृत्वा चागाद् गणान्तरे ।।३।। मृतश्चानशनात्तत्र सोऽथ दुष्टोऽवदन् मुनीन् । गुरवः क्वागमन्नूचुर्न विद्योऽन्यतोऽथ सः ।।४।। ज्ञात्वा तत्राऽगमत्तांश्चापृच्छत् साधून् गुरुः क्व मे । तैरूचेऽद्य मृतस्त्यक्तं श्मशानेऽस्ति च तद्वपुः ।।५।। गत्वा तत्राथ तद्दन्तान् स भनक्ति च वक्ति च । खादिष्यसि पुनः किं मे रुच्यां सर्षपभर्जिकाम् ? ।।६।। अन्य कोऽपि मुनिलब्ध्वा मुखानन्तकमुज्ज्वलम् । गुरोरढोकयत्तच्चाददे तैः सोऽपि रुष्टवान् ।।७।। तदेवार्पयतोऽप्यस्य नाददे किं पुनर्निशि । तल्लास्यसीति जल्पन् स गुरुं गाढं गलेऽग्रहीत् ।।८।। संमूढो गुरुरप्येनं ततो द्वावपि तौ मृतौ । साधुना केनचित्क्वापि लब्धा शिखरिणी शुभा ।।९।। तथा निमन्त्रितस्तेन गुरुस्तां निखिलां पपौ । तं सोऽथाश्मानमुद्गीर्य हिंसन्नन्यैर्यवार्यत ।।१०।। तथाप्यनुपशान्ते च तस्मिन्ननशनं गुरुः । स्वगच्छ एव विदधे नान्यं गच्छं जगाम सः ।।११।। अस्तंगतेऽपि कोऽप्यर्के सीव्यन् गुरुभिरौच्यत । उलूकाक्षोऽसि भिक्षो ! त्वं स रुष्टो गुरुमूचिवान् ।।१२।। तदैवं वदतो वे अप्यक्षिणी उद्धराम्यहं । अथासौ गुरुणा गाढं क्षमितोऽपि न शान्तवान् ।।१३।। ततो रजोहते.हमयीमाकृष्य कीलिकाम् । रोषाध्मातः स दुष्टात्मा समुद्दधेऽक्षिणी गुरोः ।।१४।। १. अथ मुखानन्तकदृष्टान्तमाहएकेन साधुना मुखानन्तकमतीवोज्ज्वलं लब्धम् , तस्य च गुरुभिर्ग्रहणं कृतम् । तत्रापि 'एवमेव' पूर्वाख्यानकसदृशं वक्तव्यम् । नवरं तत् पुनर्मुखानन्तकं प्रत्यर्पयतोऽपि न गृहीतम् । ततो गुरुणा स्वगण एव भक्तं प्रत्याख्यातम् । निशायां च विरहं लब्ध्वा 'मुखानन्तकं गृह्णासि' इति भणता गाढतरं गले ग्रहणं कृतम् । सम्मूढेन च 'इतरेणापि' गुरुणा स गलके गृहीतः । एवं द्वावपि मृतौ ।। (बृ०क० ४९९० टीका) २. शिखरिणीदृष्टान्तमाहएकेन साधुना उत्कृष्टा शिखरिणी लब्धा । सा च गुरूणामालोचिता, तया च गुरवः छन्दिताः-निमन्त्रिताः। सा च तैः सर्वाऽप्यापीता । ततः स साधुः प्रद्वेषमुपगतो मारणार्थं दण्डकमुद्गीर्णवान् । स गुरुभिः क्षामितोऽपि यदा नोपशाम्यति तदा भक्तपरिज्ञा कृता । नवरमिह 'सः' आचार्योऽन्यस्मिन् गणे न गतः । तस्य च समाधिना कालगतस्य शरीरकं तेन पापात्मना दण्डकेन कुट्टितम् ।। (बृ०क० ४९९२ टीका) ३. उलूकाक्षदृष्टान्तमाहएकः साधुरस्तङ्गतेऽपि सूर्ये सीव्यन् अपरेण साधुना परिहासेन भणितः-उलूकाक्ष ! किमेवमस्तङ्गतेऽपि सूर्ये सीव्यसि ? स प्राह-एवं भणतस्तव द्वे अप्यक्षिणी उत्खनामि । अत्रापि सर्वोऽपि प्रथमाख्यानकगमो मन्तव्यः । नवरमिह स्वगणे प्रत्याख्यातभक्तस्य कालगतस्य रजोहरणाद् अयोमयीं कीलिकामाकृष्य 'मां उलूकाक्षं भणसि ?' इति बुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य ढोकयति, वैरं मया नियमितम्' इति कृत्वा ।। (बृ०क० ४९९१ टीका) A. रजोहरणाद् अयोमयीं कीलिकामाकृष्य इत्यर्थः ।