________________
जइ - जीयकप्पो एवंविधार्थोपादानकारी आचार्यः स्वस्य महाव्रतान्यारोपयितुमभ्यर्थयमानोऽपि तद्दोषकरणनिवृत्तोऽपि तत्र क्षेत्रे महाव्रतेषु न स्थाप्यते । तथा हस्तालम्ब इव हस्तालम्बस्तं ददानः । अशिवे पुररोधादौ तत्पशमनार्थमभिचारमन्त्रादीन् प्रयुआन इत्यर्थः । तथा हस्तेनाताडनं हस्तातालस्तं ददानः । यष्टिमुष्टिलगुटादिभिरात्मनः परस्य च मरणभयनिरपेक्ष सपक्षे, चशब्दात् परपक्षे च घोरपरिणामो निर्दयो यः प्रहरति । एते त्रयोऽप्यनवस्थाप्याः क्रियन्ते । यदि वा आचार्यादीन कोऽपि हिनस्ति ततस्तन्मारणेनापि तान् रक्षेत् । यदाह
आयरिअस्स विणासे गच्छे अहवा वि कुलगणे संधे । पंचिंदिअवोरमणं पि काउं नित्थारणं कुज्जा ।। एवं तु करितेणं अबुछित्ती कया उ तित्थंमि । जइ वि सरीरावाओ तहविह आराहओ सो उ' ।। यस्तु समर्थोऽप्यागाढे प्रयोजने न प्रगल्भते स विराधकः ।।२८३ ।। तथा
अभिसेओ सव्वेसु वि बहुसो पारंचिआवराहेसु ।
अणवट्ठप्पावत्तिसु पसज्जमाणो अणेगासु ।।२८४।। व्याख्या-इहाभिषेक उपाध्यायः । स येषु येष्वपराधेषु पाराञ्चिकमापद्यते तेषु बहुशः पाराधिकापराधेषु कृतेषु सर्वेष्वपि शुद्धिनिमित्तमनवस्थाप्यः क्रियते । यथा भिक्षोरनवस्थाप्यपाराञ्चिके अपि प्राप्तस्य मूलमेव परमं प्रायश्चित्तं भवति । एवमुपाध्यायस्याप्यनवस्थाप्यमेव परमम् । तथा अनवस्थाप्यापत्तिषु अनेकासु अनवस्थाप्यापत्तिहेतवो येऽनेकाऽतिचारास्तेषु प्रसजन् प्रसक्तो भवन्नुपाध्यायोऽनवस्थाप्यः क्रियते ।।२८४।। स चानवस्थाप्यः क्रियमाणः कस्मिन् कस्मिन् विषये क्रियत ? इत्याह
कीरइ अणवट्ठप्पो सो लिंगखित्तकालओ तवओ।
लिंगेण दवभावे भणिओ पवावणाणरिहो' ।।२८५।। व्याख्या-क्रियते तथाविधापराधकारित्वान्महाव्रतेषु लिङ्गे वा नावस्थाप्यत इत्यनवस्थाप्यः । स चतुर्धालिङ्गतः क्षेत्रतः कालतस्तपोविशेषतश्चेति । लिङ्गं द्विधा-द्रव्ये भावे च । तत्र द्रव्यलिङ्गं रजोहरणादि, भावलिङ्ग महाव्रतादि । अत्र चतुर्भङ्गी-द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्य इत्येको भङ्गः । द्रव्यलिङ्गेनानवस्थाप्यो न भावलिङ्गेनेति द्वितीयः । भावलिङ्गेनानवस्थाप्यो न द्रव्यलिङ्गेनेति तृतीयः । उभाभ्यामपि नानवस्थाप्य इति चतुर्थः । इह द्रव्यलिङ्गेन भावलिङ्गेन चानवस्थाप्यः प्रथमभङ्गस्थः प्रव्राजनानो भणितः ।।२८५।। लिङ्गानवस्थाप्यादि चातुर्विध्यमेव विवृण्वन्नाह -
अप्पडिविरओसन्नो न भावलिंगारिहोणवठ्ठप्पो ।
जो जत्थ जेण दूसइ पडिसिद्धो तत्थ सो खित्ते' ।।२८६।। व्याख्या-अप्रतिविरतः साधर्मिकान्यधार्मिकस्तैन्यात् प्रदुष्टचित्तत्वेनानिवृत्तः सपक्षपरपक्षप्रहरणोद्यतश्च निरपेक्षोऽनुपशान्तवैरो यः स द्रव्यभावलिङ्गाभ्यामनवस्थाप्यो-ऽनवस्थाप्यप्रथमभङ्गवर्ती क्रियते । हस्तालम्बदायी