________________
जइ - जीयकप्पो अतो योग्यानामेव दातव्यः । अत्र चादौ पूर्वजीतकल्पगतास्तद्रूपा एव चतुर्विंशतिगाथाः सन्ति । तासां व्याख्याऽपि प्रायस्तद्रूपैव । तथाहि-सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयप्रयोजनप्रतिपादनपुरस्सराण्येव प्रणीयन्ते । विशेषतो निश्शेषकल्मषकरीषंकषो जीतकल्पस्ततस्तस्यादौ मङ्गलादिप्रतिपादिकेयं गाथा
कयपवयणप्पणामो वुच्छं पच्छित्तदाणसंखेवं ।।
जीअव्ववहारगयं जीवस्स विसोहणं परमं ।।१।। व्याख्या-प्रकर्षण परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवादयः पदार्था अनेनाऽस्मिन्निति वा प्रवचनं सामायिकादि बिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् उपचारात् तत्रोपयुक्तश्चतुर्विधः सङ्घोऽपि । कृतः प्रवचनस्य प्रणामो येन स कृतप्रवचनप्रणामोऽहं वक्ष्ये प्रायश्चित्तदानसङ्खपम् । पापं छिनत्ति इति पापछित् । अथवा प्रायः चित्तं-जीवं मनो वाऽतीचारमलमलिनितं शोधयतीति प्रायश्चित्तम् । आर्षत्वात् प्राकृतेन पच्छित्तं । उक्तं चपावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा । पाएण वा वि चित्तं विसोहई तेण पच्छित्तं ।। (व्य०सू० ३५) तस्य दानं तस्य सक्षेपः सङ्ग्रहस्तं जीतव्यवहारकृतं जीतव्यवहारो- 'वत्तणुवत्ते' त्यग्रेतनगाथयैव वक्ष्यमाणलक्षणस्तेन कृतम् उपदिष्टम् , जीतव्यवहारगतं वा जीतव्यवहारानुप्रविष्टम् । जीवस्य ‘जीव प्राणधारणे, जिजीव जीवति जीविष्यती' त्युपयोगलक्षणत्वेन त्रिकालमपि जीवनाज्जीवस्तस्य विशेषेण शोधनम् । विशेषश्चायं-द्विजादयोऽपि स्थूलबुद्धयः क्वापि प्राणवधादौ सामान्येन प्रायश्चित्तं ददति, न पुनः सङ्घट्टनपरितापनोपद्रवादिभेदैः सर्वेषामेकेन्द्रियादि-त्रसपर्यन्तानां विषयभेदेन प्रायश्चित्तं दातुं जानन्ति । नह्ययमपदेशस्तदीयशास्त्रेष्वस्ति । इह पुनः प्रवचने सर्वमस्ति। अत एव यथा पलाशक्षारारिष्टकोदकादिर्वस्त्रमलस्य शोधनम् । तथाऽत्रापि कर्ममलमलिनस्य जीवस्य जीतव्यवहारोपदिष्टं विशोधनं परमं प्रकृष्टमनन्यसदृशम् , नान्यत्रैवं विशिष्टप्रायश्चित्तविधिरस्तीत्यर्थः। इह शिष्यः प्राह - विशेषणं हि व्यवच्छेदकं भवति, यथा नीलोत्पलमित्यत्र नीलविशेषणं रक्तोत्पलादेरपि सम्भवात् तद्व्यवच्छेदाय । तत् किमत्राप्यन्येऽपि व्यवहाराः सन्ति ? येन जीतव्यवहारगतमिति विशेष्यते । गुरुराह-सन्त्यन्येऽपि आगम-श्रुताऽऽज्ञा- धारणाव्यवहारास्तद्व्यवच्छेदाय तज्जीतपदम् । पुनः शिष्योऽभिधत्ते-भगवन्नमीषां मिथः को विशेषः ? गुरुराह-आगमव्यवहारिणस्तावत् षड्विधाः । तद्यथा-केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च । अत्र यदा केवली प्राप्यते तदा तस्याऽग्रे प्रायश्चित्तं गृह्यते, तदभावे मनःपर्यायज्ञानिनः, तस्याप्यभावेऽवधिज्ञानिनः, तदप्राप्तौ चतुर्दशपूर्विणः, तदनुपलम्भे दशपूर्विणः, तस्याऽप्यनासादने नवपूर्विण इति । श्रुतव्यवहारिणश्चाऽष्ट-सप्त- षट्-पञ्च-चतु-स्त्रि-येकार्द्धपूर्विण एकादशाङ्गधारिणो निशीथकल्पव्यवहारदशाश्रुतस्कन्धपञ्चकल्पाद्यशेषश्रुतसूत्रार्थाभिज्ञाश्च । A. करीषं कषति, अपसारयति, दूरीकरोति = महावायुः । B. द्रष्टव्यः पृष्ठः ११ ।