________________
सड-जीयकप्पो
...७३...
अथवा पुनरयमन्यः प्रकारः - सन्निकाशं सन्निभं वा कारयन्ति । इयमत्र भावना - श्राद्धादिर्यत्र पञ्चकल्याणमापन्नः तन्मध्यादाद्यं द्वितीयं तृतीयं वा यथाशक्त्यैकतरं द्वयादीनि वा यथोक्तप्रकारेण वहति, शेषमाचाम्लादिभिः प्रवेशयन्तीतिगाथाक्षरार्थः ।। ७५ ।।
पुनरन्यथानुग्रहप्रकारमाह
चउ-तिग- दुगकल्लाणे एगं कल्लाणगं व कारिंति । जो जं तरइ तं तस्स दिंति असहस्स झोसंति । ।७६ ।।
( व्य० सू० ४१८७ ) व्याख्या-यः कश्चिदालोचकः पञ्चकल्यतप आपन्नः पञ्च कल्यानि कर्त्तुं न शक्नोति, तं चत्वारि कल्यानि कारयन्ति । तथाप्यशक्तौ कल्यत्रिकं कल्यद्विकमेककल्याणकं वा कारयन्ति । किं बहूच्यते । यः पुमान् यद् यादृशं यावन्मात्रं वा तपस्तरति कर्त्तुं शक्नोति, तस्याशक्तस्य प्रभूतस्याप्यापत्तौ तत्तादृशं तावन्मात्रमेव च तपो ददति, गीतार्था इति गम्यते । यावन्मात्रं स्वशक्तिसद्भावं प्रवृत्तत्वेन तावत्तपसाऽपि तस्य शुद्धिसम्भवादन्यथा कदाचित्ततो गाढबाधासम्भवेन मनोविपरिणत्यादिसद्भावात् । यस्तदपि कर्त्तुं न शक्नोति तस्य किं कर्त्तव्यम् ? इत्याह- 'असहस्स झोसिंति' ' त्ति । असहस्यैककल्याणकादितपः करणेऽप्यसमर्थस्य सर्वं झोषयित्वा ह्रासयित्वा एकमभक्तार्थं ददति । अथवैकमाचाम्लं यावन्निर्विकृतिकं वा ददति । तदपि कर्त्तुमशक्तस्य न किमपि दद्यात् । मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः । तथापि स शुद्धो भावशुद्ध्या प्रवृत्तत्वादिति ।। ७६ ।।
एतदेव दृढयन्नाह
-
एवं सदयं दिज्जइ जेणं से संजमो थिरो होइ । न य सव्वा न दिज्जइ अणवत्थपसंगदोसाओ ।। ७७ ।। ( व्य० सू० ४१८८ )
व्याख्या– ‘एव’” मिति । उक्तप्रकारेणालोचकस्य शक्तिमपेक्ष्य सदयं सानुकम्पं तपो दीयते येन तपसा प्रदत्तेन 'से'' त्ति । तस्य संयमः स्थिरो भवति संयमस्थैर्यं भवतीत्यर्थः । न च सर्वथा न दीयतेऽपि त्वेवं पूर्वोक्तप्रकारेण स्तोकं स्तोकतरं वा दीयते एवेति । कस्मादित्याह - 'अणवत्थे'' त्यादि । अनवस्था– प्रसङ्गदोषात् । यद्येवमेव शुद्धिर्भवति तर्हि पुनरप्येतत् प्रतिसेवामीत्यनवस्थाप्रसङ्गः । यद्वा - तद्दृष्ट्वाऽन्यस्यापि तत्पापकरणे निःशङ्कत्वं स्यादिति । भिन्न एव वा प्रसङ्गनामा दोषः । उपलक्षणत्वादाज्ञाभङ्गादयो भूयांसो दोषाः सम्भवेयुरिति गाथाक्षरार्थः ।।७७।।