________________
...६६...
सड्ड - जीयकप्पो व्याख्या - उत्सूत्रं नाम यत्तीर्थकरादिभिरनुपदिष्टम् । तत्र या सूरिपरम्परागता सामाचारी । यथा— नागिला रजोहरणमूर्ध्वमुखं कृत्वा कायोत्सर्गं कुर्वन्ति । चारणानां वन्दनके 'कथमपी'' त्युच्यते इत्यादि । साऽप्यङ्गोपाङ्गेषु नोपदिष्टेति तामप्यनुपदिष्टां शङ्केत । ततोऽनुपदिष्टमाह । स्वच्छन्देन स्वाभिप्रायेण विकल्पितं स्वेच्छाकल्पितमित्यर्थः । अत एवाननुपाति सिद्धान्तेन सहाघटमानकम् । न केवलमुत्सूत्रमाचरन् प्रज्ञापयँश्च यथाछन्दः । किन्तु यः परतप्तिषु गृहस्थप्रयोजनेषु करणकारणानुमतिभिः प्रवृत्तः परतप्तिप्रवृत्तः । तथा तिन्तिणो नाम यः स्वल्पेऽपि केनचित् साधुनाऽपराद्धेऽनवरतं पुनः पुनः झषन्नास्ते । अयमेवंरूपो
यथाछन्दः । तथा -
'सच्छंदमइविगप्पिय किंची ( चि) सुहसाय - विगइपडिबद्धो । तिहिं गारवेहिं मज्जइ तं जाणाही अहाछंद' ' ।। ( व्य०सू० ८५३, गु०वि० ३ - १०१ ) व्याख्या - स्वच्छन्दमतिविकल्पितं किञ्चित् तच्च लोकाय प्रज्ञापयति । ततः प्रज्ञापनगुणेन लोकाद् विकृतीर्लभते, ताश्च विकृती : परिभुञ्जानः स्वसुखमासादयति । तेन च सुखास्वादनेन तत्रैव रतिमातिष्ठते । तथा चाह-' - 'सुहसाय' ' सुखास्वादे विकृतौ प्रतिबद्धः । तथा तेन स्वच्छन्दमतिविकल्पितप्रज्ञापनेन लोकपूज्यो भवति । अभीष्टरसाँश्चाहारान् प्रतिलभते वसत्यादिकं च विशिष्टम् । ततः स आत्मनः सभ्येभ्यो बहुमन्यते । तथा चाह–त्रिभिर्गारखैः ऋद्धिरससातलक्षणैर्माद्यति । य एवम्भूतस्तं यथाछन्दं जानीहीति । उक्तं यथाच्छन्दस्वरूपम् । ततः उक्तं पार्श्वस्थादीनां स्वरूपमित्यलं प्रसङ्गेनेति गाथार्थः ।।६२।। कन्नाहल—संडविवाहमाइ लहुगा लहू ढिल्लीणं ।
बलि- पिंड - सद्ध-बारसि - खण - नमणाइसु चउगुरुन्ने ।। ६३ ।।
व्याख्या–कन्याफले कन्याफलग्रहणे, शण्डविवाहे आदिशब्दात्तरुरोपणबलिपिण्डश्राद्धादावपि 'लहुग' ' त्ति । लघुकाः चतुर्लघुप्रायश्चित्तं भवतीत्यर्थः । तथा 'ढिउल्लीणं' ' ति । ढिउल्लिकानां वस्त्र - खण्डनिर्मितपुत्तलिकानां तु विवाहे क्रीडार्थं वा करणे लघुमासः । मतान्तरेण त्वत्रापि चतुर्लघव एव । अत्र मतान्तरमाह - तथा बलिविधाने, नदीकुण्डादिषु पित्रादीनां पिण्डप्रदाने, श्राद्धविधाने, द्वादशीभरणे, क्षणकरणे, नमने महामात्रादिकुदेवताप्रणामकरणे, आदिशब्दान्मिथ्यादृष्टितीर्थेषु स्नानादिष्वपि च 'चउगुरु' ' त्ति । चतुर्गुरु प्रायश्चित्तं भवतीत्यन्ये केचनाचार्याः प्रतिपादयन्तीति गाथाक्षरार्थः ।। ६३ ।।
>