________________
सड्ड- जीयकप्पो
...१०३... व्याख्या-इति–पूर्वोक्तप्रकारेण प्रथमं गाथाचतुःपञ्चाशता शास्त्रप्रस्तावनामभिधाय 'तणुमझुक्कोसासायणाइ मुणिनाणदेवगुरुबिंबे' इति गाथातः (गाथा-५५ तः) प्रारभ्य ‘असहस्स तं पि हसइ'' त्ति गाथा (गाथा-१३६) पर्यन्तीकृत्यैकाशीत्या गाथाभिर्ज्ञानाद्यतिचारपञ्चकगोचरस्य तपःप्रायश्चित्तस्य । तथा गाथाद्वयेन प्रायश्चित्तसज्ञायाः । तथा गाथाद्वयेनोपवासप्रमाणस्य च व्याख्यानेन एष सर्वसमुदायात्मको जीतकल्पः श्रावकाणां जीतमाचरितं तस्य कल्पो वर्णना-प्ररूपणा समासतः सङ्क्षपतः सुविहितानुकम्पया शोभनं विहितमनुष्ठानं येषां ते सुविहिताः तेषामनुकम्पया कथितः प्ररूपितः । देयः पुनरयं पात्रे सुपरीक्षितगुणे जात्यकाञ्चनवत्तापच्छेदनिकषसहे संविग्नगीतार्थे न पुनरन्यस्मिन् । येन जीतकल्पदायक-ग्राहको द्वावपि कर्मनिर्जरया शुद्ध्यतः-सिद्ध्यतश्चेति गाथार्थः ।। १४१।।
सिरिदेविंदमुणीसरविणेअ-सिरिधम्मघोससूरीहिं ।
इअ सपरजाणणट्ठा रइअं सोहिंतु गीअत्था ।।१४२।। व्याख्या-श्रीदेवेन्द्रमुनीश्वराणां विनेयैः शिष्यैः श्रीधर्मघोषसूरिभिरितीदं श्राद्धजीतकल्पशास्त्रं स्वपरज्ञानार्थाय स्वपरपरिज्ञानहेतवे सूत्ररूपतया (रचितं) ग्रथितम् । इदं हि यद्यपि श्रुतानुसारादेवोक्तं न पुनर्निजमनीषिकल्पनाविजृम्भितम् । तथापि गीतार्थाः श्रीनिशीथादिछेदग्रन्थसूत्रार्थधराः शोधयन्तु प्रमादादिजनितं दूषणं व्यपनयन्तु शुद्धिं जनयन्त्विति गाथार्थः ।। १४२।।
इति श्रीजीतकल्पवृत्तिः समर्थिता प्रत्यक्षरं गणनया श्लोकमानं विनिश्चितम् । षड्विंशतिशतीयुक्ता षट्चत्वारिंशता पुनः ।।१।।
अङ्कतोऽपि श्लोकाः २६४६