________________
पश्यकस्य नोपधिः [श्रु०१। अ०३। उ०४। सू०१३१] आयाणमित्यादि । आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिद् असौ इति ॥१३०॥
किं च अस्य भवति ? इत्याह[ सू०] किमत्थि उवधी पासगस्स, ण विज्जति ?; णत्थि त्ति बेमि ॥१३१॥
॥ सीतोसणिज्जं ततियमज्झयणं सम्मत्तं ॥ किमत्थि इत्यादि । पश्यकस्य केवलिनः उपाधिः विशेषणम्, उपाधीयत इति वा उपाधिः द्रव्यतो हिरण्यादिः, भावतोऽष्टप्रकारं कर्म । स द्विविधोऽपि उपाधिः किमस्ति आहोस्विद् न विद्यते ?, नास्तीति एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिने कथयति यथा-सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दं उपासता सर्वं एतद् अश्रावि तद् भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनया इति ॥१३१।।
गतः सूत्रानुगमः । तद्गतौ च समाप्तश्चतुर्थोद्देशकः । तत्समाप्तौ च अतीता-ऽनागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति ॥ छ ।
ग्रन्थाग्रम् ७९० ॥ छ ।
टि० १. इत्युपाधिः ख ॥ २. गौतमस्वामी घ ङ ।।
३१९