________________
वनस्पतिजन्यशब्दादीनां सर्वदिग्भाक्त्वम् [श्रु०१। अ०१ । उ०५ । सू०४१] तदन्त:पात्यावर्त्यते स द्रव्यैरावर्त इति । अधिकरणविवक्षायामेकस्मिन् जलद्रव्ये आवर्तः, अन्योन्यभावसङ्क्रान्तिः, औदयिकभावोदयाद् वा नरकादिगतिचतुष्टयेऽसुमानावर्तते । इह च भावाऽऽवर्तेनाधिकारः, न शेषैरिति ।
अथ य एते गुणाः संसारावर्तकारणभूताः शब्दादयो वनस्पतेरभिनिर्वृत्ताः ते किं नियतदिग्देशभाज उत सर्वदिक्षु ? इत्यत आह
उड्डुं अवं तिरियं पाईणं पासमाणे रूवाइं पासति, सुणमाणे सद्दाई सुत । उड्डुं अहं तिरियं पाईणं मुच्छमाणे रूवेसु मुच्छति, सद्देसु यावि ।
५
उड्डुं अवमित्यादि । प्रज्ञापकदिगङ्गीकरणाद् ऊर्ध्वदिग्व्यवस्थितं रूपगुणं पश्यति प्रासादतल-हर्म्यादिषु । अवमिति अवाङ् अधस्ताद् गिरिशिखरप्रासादाधिरूढोऽधोव्यवस्थितं रूपगुणं पश्यति, अधः शब्दार्थेऽवाङ् इत्ययं वर्तते । गृहभित्त्यादिव्यवस्थितं रूपगुणं च तिर्यक् पश्यति । तिर्यक्शब्देन चात्र दिशोऽनुदिशश्च परिगृह्यन्ते, ताश्च इमा:- प्राचीनम् इति पूर्वा दिग् । एतच्च उपलक्षणम्, अन्या अपि एतादृगाद्या: तिर्यग्दिशो दृष्टव्या इति । एतासु दिक्षु पश्यन् चक्षुर्ज्ञानपरिणतो रूपाणि द्रव्याणि चक्षुर्ग्राह्यतया परिणतानि पश्यति, उपलभत इत्यर्थः । तथा तासु च शृण्वन् शृणोति शब्दान् उपयुक्त: श्रोत्रेण, न्य I
अत्र उपलब्धिमात्रं प्रतिपादितम्, न चोपलब्धिमात्रात् संसारप्रपातः, किन्तु यदि मूर्च्छा रूपादिषु करोति ततोऽस्य बन्ध इति दर्शयितुमाह
उड्ढमित्यादि । पुनः ऊर्ध्वादेः मूर्च्छासम्बन्धार्थमुपादानम्, मूर्च्छन् रूपेषु मूर्च्छति, रागर्परिणामं यान् रँज्यते रूपादिषु इत्यर्थः, एवं शब्देष्वपि मूर्च्छति । अपिशब्दः सम्भावनायां समुच्चये वा । रूप- शब्दविषयग्रहणाच्च शेषा अपि गन्ध-रस - स्पर्शा गृहीता: भवन्ति, एकग्रहणे तज्जातीयानां ग्रहणात्, आद्यन्तग्रहणाद् वा तन्मध्यग्रहणमवसेयमिति । एवं विषयलोकमाख्याय विवक्षितमाह
एस लोगे वियाहिते । एत्थ अगुत्ते अणाणाए पुणो पुणो गुणासाते वंकसमायारे पत्ते गारमावसे ॥४१॥
टि० १. अधमित्यादि ख च । अहमित्यादि ग ॥ २. अधमिति ग च ॥ ३. अवा अध० क च । ४. ० दारूढ ख च ॥ ५. अधादित्ययं क ॥ ६. ०परिणामवान् च ॥ ७ युज्यते ख ॥ ८. तज्जातीयग्रहणात् ख ॥ वि०टि० © "यान् इति गच्छन् " जै०वि०प० ॥
११९