________________
[श्रु०१। अ०१। उ०२। नि०८१] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम् गुल्मानि नवमालिका-कोरण्टकादीनि, लताः पुन्नागा-ऽशोकलताः, वल्ल्यः त्रपुषीवालुङ्की-कोशातक्यादयः, वलयानि केतकी-कदल्यादीनि ॥८०॥
पुनरपि वनस्पतिभेददृष्टान्तेन पृथिव्या भेदमाह[नि०] ओसहि तण सेवाले पणगविहाणे य कंदमूले य ।
जह दीसइ णाणत्तं पुढविक्काए तहा जाण ॥८१॥ ओसहीत्यादि । यथा हि वनस्पतिकायस्य औषध्यादिको भेदः एवं पृथिव्या अपि दृष्टव्यः । तत्र औषध्यः शाल्याद्याः, तृणानि दर्भादीनि, शैवलं जलोपरि मलरूपम्, पनकः काष्ठादावुल्लीविशेषः पञ्चवर्णः, कन्दः सूरणकन्दादिः, मूलम् उशीरादीति ॥८१॥
___एते च सूक्ष्मत्वाद् न एक-द्वयादिकाः समुपलभ्यन्ते, यत्सङ्ख्याः तु उपलभ्यन्ते तद् दर्शयितुमाह[नि०] एक्कस्स दोण्ह तिण्ह व संखेज्जाण व ण पासिउं सक्का ।
दीसंति सरीराइं पुढविजियाणं असंखाणं ॥८२॥ ___ एगस्सेत्यादि । स्पष्टा ॥८२॥ कथं पुनः इदं अवगन्तव्यं 'सन्ति पृथिवीकायिकाः' ? इति, उच्यते- तदधिष्ठितशरीरोपलब्धः अधिष्ठातरि प्रतीतिः, गवा-ऽश्वादौ इव इति । एतद् दर्शयितुमाह[नि०] एएहिं सरीरेहिं पच्चक्खं ते परूविया होति ।
सेसा आणागेज्झा चक्खुप्फासं न ते इंति ॥८३॥ एएहि इत्यादि । एभिः असङ्ख्येयतया उपलभ्यमानैः पृथिवी-शर्करादिभेदभिन्नैः शरीरैः ते शरीरिणः शरीरद्वारेण प्रत्यक्षं साक्षात् प्ररूपिता: प्रख्यापिता भवन्ति । शेषास्तु सूक्ष्मा आज्ञाग्राह्या एव दृष्टव्याः, यतः ते चक्षुःस्पर्शं न आगच्छन्ति। स्पर्शशब्दः विषयार्थः ॥८३॥ प्ररूपणाद्वारानन्तरं लक्षणद्वारमाह[नि०] उवओग जोग अज्झवसाणे मइ सुय अचक्खुदंसे य ।
अट्ठविहोदयलेसा सण्णुस्सासे कसाए य ॥८४॥
टि० १. ०क्याद्याः कागदीयादर्शेषु ॥ २. णाणत्ती छ ज झ ॥ ३. ०व्यामपि ख ॥ ४. पासियं ज ।। ५. ०ज्झा उ चक्खुफासं न तो ति (ते तिं )ति ॥
५६