________________
[श्रु०१।०१। उ०२।नि०७७] वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
एवं सूक्ष्म-बादरभेदान् प्रतिपाद्य पुनर्वर्णादिभेदेन पृथिवीभेदान् दर्शयितुमाह[नि०] वण्ण रस गंध फासे जोणिप्पमुहा भवंति संखेज्जा ।
णेगाइं सहस्साई होंति विहाणम्मि एक्कक्के ॥७७॥ वन्न इत्यादि । तत्र वर्णाः शुक्लादयः पञ्च, रसाः तिक्तादयः पञ्च, गन्धौ सुरभिदुरभी, स्पर्शा मृदु-कर्कशादयोऽष्टौ । तत्र वर्णादिके एकै कस्मिन् योनिप्रमुखाः= योनिप्रभृतयः सङ्ख्येया भेदा भवन्ति । सङ्ख्येयस्य अनेकरूपत्वाद् विशिष्टसङ्ख्यार्थमाह-अनेकानि सहस्राणि एकैकस्मिन् वर्णादिके विधाने भेदे भवन्ति, योनितो गुणतश्च भेदानामिति । एतच्च सप्तयोनिलक्षप्रमाणत्वात् पृथिव्या एवं भावनीयमिति । उक्तं च प्रज्ञापनायाम्
"तत्थ णं जे ते पज्जत्तगा एएसि णं वण्णाएसेणं गंधाएसेणं रसाएसेणं फासाएसेणं सहस्सग्गसो विहाणाइं संखेज्जाइं जोणिप्पमुहसयसहस्साइं, पज्जत्तयनीसाए अपज्जत्तया वक्कमंति जत्थेगो तत्थ नियमा असंखेज्जा, से तं खरबायरपुढविकाइया ।"
___[प्रज्ञा०सू०१।२५(३)] ___ इह च संवृतयोनयः पृथिवीकायिकाः । सा पुनः सचित्ता अचित्ता मिश्रा वा । तथा पुनः शीता उष्णा शीतोष्णा वा इति एवमादिका दृष्टव्या इति ॥७७॥
एतदेव भूयो नियुक्तिकृत् स्पष्टतरमाह[नि०] वन्नम्मि य एक्ककं गंधम्मि रसम्मि तह य फासम्मि ।
णाणत्ती कायव्वा विहाणए होइ एक्कक्के ॥७॥ वन्नम्मीत्यादि । वर्णादिके एकैकस्मिन् विधाने = भेदे सहस्राग्रशो नानात्वं विधेयम्, तथा हि-कृष्णो वर्ण इति सामान्यम्, तस्य च भ्रमरा-ऽङ्गार-कोकिल-गवलकज्जलादिषु प्रकर्षा-ऽप्रकर्षविशेषाद् भेदः कृष्णः कृष्णतर: कृष्णतम इत्यादि । एवं नीलादिषु अपि आयोज्यम् । तथा रस-गन्ध-स्पर्शेषु सर्वत्र पृथिवीभेदा वाच्याः । तथा वर्णादीनां परस्परसंयोगाद् धूसर-केसर-कर्बुरादिवर्णान्तरोत्पत्तिः । एवमुत्प्रेक्ष्य वर्णादीनां
टि० १. ०ज्जायं ङ। ०ज्जाति ग च ॥ २. ०यणिस्साते ङ॥ ३. ०यः खरबादरपृथिवीकायिका उक्ताः । सा ख ॥ ४. ०णओ क ॥
वि०टि० "वक्कमति इति उत्पद्यन्ते" जै०वि०प० ।।
५४