SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ श्री सूत्रकृताङ्ग सूत्रम् जहा विहंगमा पिंगा, थिमिअं भुंजती दगं । एवं विन्नवणित्थिसु, दोसो त कओ सिआ ! ॥१२॥ छाया - यथा विहङ्गमा पिङ्गा, स्तिमितं भुङ्क्ते दकम् । ___ एवं विज्ञापनीस्त्रीषु दोषस्तत्र कुतः स्यात् ॥ अनुवाद - जैसे पिंग नामक पक्षिणी स्तिमित बिना हिलाये कम्पाये पानी पीती है, उसके द्वारा वैसा किये जाने से किसी प्राणी को कष्ट नहीं होता ओर वह तृप्त हो जाती है, उसी प्रकार अभ्यर्थता करने वाली स्त्रियों के साथ सम्बन्ध करने से किसी प्राणी को कोई दुःख नहीं होता, इसलिए इसमें दोष कहां से हो सकता टीका - अस्मिन्नेवानुपघातार्थे दृष्टान्तबहुत्वख्यापनार्थं दृष्टान्तान्तमाह 'यथा' येन प्रकारेण विहायसा गच्छीतीति विहंगमा-पक्षिणो-पिंगेति कपिजला साऽऽकाश एवं वर्तमानाः 'तिमितं' निभृतमुदकमापिबति, एवमत्रापि दर्भप्रदांनपूर्विकया क्रियया अरक्तद्विष्टस्य पुत्राद्यर्थ स्त्रीसम्बन्धं कुर्वतोऽपि कपिञ्जलाया इव न तस्य दोष इति, साम्प्रतमेतेषां गण्डपीडनतुल्यं स्त्रीपरिभोगं मन्यमानानां तथैडकोदकपानसदृशं परपीडाऽनुत्पादकत्वेन परात्मनोश्च सुखोत्पादकत्वेन किल मैथुनं जायत इत्यध्यवसायिनां तथा कपिज्जलोदकपानं यथा तडाागोदकासंस्पर्शेन किल भवत्येमरक्तद्विष्टतया दर्भाधुत्तारणात् स्त्रीगात्रासंस्पर्शेन पुत्रार्थं न कामार्थ ऋतुभिगामितया शास्त्रोक्त विधानेन मैथुनेऽपि न दोषानुषङ्ग, चोचुस्ते - "धर्मार्थं पुत्रकामस्य स्वदारेष्वधिकारिणः । ऋतुकाले विधानेन, दोषस्तत्र न विधते ॥१॥" इति एवमुदासीनत्वेन व्यवस्थितानां दृष्टान्तेनैव नियुक्तिकारो गाथात्रयेणोत्तरदानायाह - जहणाम मंडलग्गेण सिरं छेत्तू ण कस्सइ मणुस्सो । अच्छेज्ज पराहुत्तो किंनाम ततो ण धिप्पेज्जा ?।५३।। जहवा विसगंडूसं कोई घेत्तूण नाम तुण्हिक्को । अण्णेण अदीसंतो किं नाम ततो न व मरेज्जा ! ॥५४॥ जहा नाम सिरिघराओ कोइ रयणाणि घेत्तूणं । अच्छेज पराहुतो किं णाम ततो न घेप्पेज्जा ॥५५॥ यथा [ग्राग्रन्थम् ३०१०] नाम कश्चिन्मण्डलाग्रेण कस्यचिच्छिरश्छित्त्वा पराङ्मुखस्तिष्ठेत, किमेतावतोदासीन भावावलम्बनेन 'न गृह्येत्' नापराधी भवेत् ? । तथा-तथा कश्चिद्विषगण्डूषं 'गृहीत्वा' पीत्वा नाम तूष्णींभावं भजेदन्येन चादृश्यमानोऽसौ किं नाम 'ततः' असावन्यादर्शनात् न म्रियते ? । तथा-यथा कश्चित् श्रीगृहाद्भाण्डागाराद्रत्नानि महा_णि गृहीत्वा पराङ्मुखस्तिष्ठेत, किमे-तावताऽसौ न गृह्येतेति ? । अत्र च यथा-कश्चित् शठतया अज्ञतया वाशिरश्छेदविषगण्डुषरत्नापहाराख्ये सत्यपि दोषत्रये माध्यस्थ्यमवलम्बेत, न च तस्य तदवलम्बनेऽपि निर्दोषतेति, एवंमत्राप्यवश्यंभाविरागकायें मैथुने सर्वदोषास्पदे संसारवर्द्धके कुतो निर्दोषतेति, तथा चोक्तम् - "प्राणिनां बाधकं चैतच्छास्त्रे गीतं महर्षिभिः । नलिकातप्तकणक्प्रवेशज्ञाततस्तथा ॥१॥ मूलं चैतदधर्मस्य, भवभावप्रवर्धनम् । तस्माद्विषान्नवत्त्याज्यमिदं पापमनिच्छता ॥२॥ इति नियुक्तिगाथात्रयतात्पर्यार्थः ॥ साम्प्रतं सूत्रकार उपसंहार त्याजेन गण्डपीडनादिदृष्टान्तवादिनां दोषोद्विभावयिषयाह - (252
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy