________________
जैन आगम ग्रन्थों में पञ्चमतवाद
324
456. महाभारत, अनुशासनपर्व, 1.26 कथं तस्य समुत्पत्तिर्यतौ दैवं प्रवर्तते । एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवो गुणाः । ।
457. महाभारत, शांतिपर्व, 28.18-19, 23
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः । अर्थार्थी सुखं दुःखंः निधानमनुवर्तते ।। प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च । प्राप्तिर्व्यायामयोगश्च सर्वमेतत् प्रतिष्ठितम् ।। कुले जन्म तथा वीर्यमारोग्यं रूपमेव च । सौभाग्यमुपभोगश्च भवितव्येन लभ्यते । । 458. महाभारत, शांतिपर्व, 28.25
व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम् ।
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा । ।
निर्माण यस्य यद् दिष्टं तेन गच्छति सेतुना । ।
459. महाभारत, सौप्तिकपर्व, 2. 11, कर्णपर्व, 9.20, आदिपर्व, 1.246 उत्थानां च मनुष्याणां, दक्षाणां दैववर्जितम् । अफलं दृश्यते लोके, सम्यगप्युपपादितम् ।। अन्यथा चिन्तितं कार्यमन्यथा तत् तु जायते । अहो नु बलवद् दैवं कालश्च दुरतिक्रमः ।। भवितव्यं तथा तच्च नानुशोचितुमर्हसि । दैवं प्रज्ञाविशेषेण को निवर्तितुमर्हति ।।
460. महाभारत, शांतिपर्व, 171.2-14
सर्वसाम्यमनायासः सत्यवाक्यं च भारत। निर्वेदश्च विवित्सा च यस्य स्यात्स सुखी नरः । 12 एतान्येव पदान्याहुः पञ्च वृद्धाः प्रशान्तये । एष स्वर्गश्च धर्मश्च सुखं चानुत्तमं सताम् । 13 अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निर्वेदान्मंकिना गीतं तन्निबोध युधिष्ठिर । 14 ईहमानो धनं मंकिर्भग्नेहश्च पुनः पुनः । केनचिद्धनशेषेण क्रीतवान्दम्यगोयुगम्। 15 सुसंबद्धो तु तौ दम्यो दमनायाभिनिःसृतौ । आसीनमुष्ट्रं मध्येन सहसैवाभ्यधावताम् 16 तयोः संप्राप्तयोरुष्ट्रः स्कन्धदेशममर्षणः । उत्थायोत्क्षिप्य तौ दम्यौ प्रससार महाजवः । 17 ह्रियमाणौ तु तौ दम्यौ तेनोष्ट्रेण प्रमाथिना । म्रियमाणौ च सप्रेक्ष्य मंकिस्तत्राब्रवीदिदम् ।।8 न चैवाविहितं शक्यं दक्षेणापीहितुं धनम् । युक्तेन श्रद्धया सम्यगीहां समनुतिष्ठता । 19 कृतस्य पूर्वं चानर्थैर्युक्तस्याप्यनुतिष्ठतः । इमं पश्यत संगत्या मम दैवमुपल्लवम् ।।10 उद्यम्योद्यम्य मे दम्यौ विषमेणेव गच्छति । उत्क्षिप्य काकतालीयमुत्पथेनैव जम्बुकः ।।11 मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । शुद्धं हि दैवमेवेदं हठे नैवास्ति पौरुषम् । 112 यदि वाप्युपपद्येत पौरुषं नाम कर्हिचित् । अन्विष्यमाणं तदपि दैवमेवावतिष्ठते । ॥13 तस्मान्निर्वेद एवेह गन्तव्यः सुखमीप्सता । सुखं स्वपिति निर्विण्णो निराशश्चार्थसाधने।।14 461. महाभारत, आदिपर्व, 1. 179
विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावौ सुखासुखे ।।