________________
302
जैन आगम ग्रन्थों में पञ्चमतवाद
न वै नूनं भगवन्तस्त एतदवेदिषुर्यद्धयेतदवेदिष्यन्कथं मे नावक्ष्यन्निति भगवा स्त्वेव मेतद्ब्रवीत्विति तथा सोम्येति होवाच ।। 7 ।।
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सज्जायत । 16.2.1 ।।
कुतस्तु खलु सोम्यैव स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।। 2 ।।
तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत । तत्तेज ऐक्षत बहु स्यां प्रजायेयेति तदपोऽसृजत । तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ।।3।। ता आप ऐक्षन्त बह्वयः स्याम प्रजायेमहीति ता अन्नमसृजन्त । तस्माद्यत्र क्व च वर्षति तदेव भूयिष्ठमन्नं भवत्यद्भय एव तदध्यन्नाद्यं जायते ।। 4 ।। यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणा रसान्समहारमेकता सं गमयन्ति ।।6.9.1
तथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीत्येव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामह इति । । 2 ।। इह व्याघ्रो वासि हो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दूँशो वा मशको यद्यद्भवन्ति तदाभवन्ति । 13 ।।
स य एषोऽणिमैतदात्म्यमिदं सर्वं तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।। 4 ।।
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन्स्त्रवेद्यो मध्येऽभ्याहन्याज्जीवन्स्त्रवेद्योऽग्रेऽ-भ्याहन्याज्जीवन्स्त्रवेत्स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ।।6.11.1 ।।
अस्य यदेक शाखां जीवो जहात्यथ सा शुष्यति द्वितीयां जहात्यथा सा शुष्यति तृतीय जहात्यथ सा शुष्यति सर्वं जहाति सर्वः शुष्यति ।। 2 । । एवमेव खलु सोम्य विद्धीति होवाच जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति स य एषोऽणिमैतदात्म्यमिदूँ सर्व तत्सत्यूँस आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ।।3।।
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत्स यथा तत्र प्राङ्वोदङ्वाधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः । ।6.14.1 ।।
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति स ग्रामादुग्रामं पृच्छन्पणिडतो मेधावी गन्धारानेवोपसम्पद्येतैवमेवेहाचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथसम्पत्स्य इति । । 2 ।।
स य एषोऽणिमैतदात्म्यमिद सर्वं तत्सत्य स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान् विज्ञापयत्विति तथा सोम्येति होवाच ।।3।।